SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ [मूलराजः] ध्याश्रयमहाकाव्ये ९८ ___श्रिया पूर्वाय । ओजःपूर्वाय । अह्वावराय । मासावराय । इत्यत्र "तृतीयान्तात्" [१३] इत्यादिना सर्वादिकार्य न ॥ कृष्णायास्मै द्वितीयस्मै द्वितीयायासिना नृपाः । द्वितीयस्मात्तृतीयाच्च देशादेत्य नमो व्यधुः ॥ १५७ ॥ १५७. गूर्जात्रादेशापेक्षया द्वितीयस्मात्तृतीयाच देशादुपलक्षणत्वात्सर्वदेशभ्य इत्यर्थः । एत्यागत्य नृपा अस्मै राज्ञे नमः प्रणामं व्यधुः । यतो द्वितीयस्मै कृष्णाय । ईदृशायापि कुत इत्याह । यतोसिना द्वितीयाय महाबलत्वेन सैन्यादिसहायनिरपेक्षायेत्यर्थः ।। द्वितीयस्यास्तृतीयाया नृपकीर्तेरमर्षणः । जगत्यस्मिन्द्वितीयस्मिंस्तृतीये चैष विश्रुतः ॥ १५८॥ १५८. एष राजास्मिन् जगति पृथिव्यां द्वितीयस्मिन् जगति पाताले तृतीये च जगति स्वर्गे च विश्रुतो विख्यातः । यतो द्वितीयस्यास्तृतीयायाः स्वकीर्त्यपेक्षयान्यस्या अन्यतरस्याश्चोपलक्षणत्वात्सर्वस्या इत्यर्थः । नपकीर्तेरन्यराजयशसः कर्मणोमर्षणोसोढा । परिभावुक इत्यर्थः। अतश्वायमेव सर्वत्र प्रसिद्ध इति भावः ॥ तेजसा सूर्यजातीये सर्वेषां प्रलयो द्विषाम् । कान्त्या द्वितीयके चेन्दौ होस्मिन् सुहृदामभूत् ॥१५९॥ ५५९. तेजसा प्रतापेन कृत्वा सूर्यः प्रकारोस्य तस्मिन्सूर्यजातीये सूर्यवत्प्रचण्डेस्मिन् राज्ञि सर्वेषां द्विषां प्रलयः क्षयोभूत् । एतत्प्रता - १. सी 'नायरमाच. १ सी डी रिदै एफ 'रधात्रीदे'. २ एफ 'तीयस्माच. ३ वी सी डा एफ या दि. ४ एफ 'गें वि. ५ वी एफ् यन
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy