________________
परिशिष्ठपर्वणि टतीयः सर्गः।
पुरोधमो ऽन्यदा तस्य काप्यागमि .समागते । कुपितस्तं न्यजितद्भूपतिश्चण्डशासनः ॥ १५३ ॥ विज्ञाय तदभिप्रायं राबावेव पुरोहितः । मित्रस्य सहमित्रस्य सदनं दैन्यभाग्ययौ ॥ १ ५ ४ ॥ ममाद्य रुष्टो राजेति कथयित्वा पुरोहितः । तमूचे त्वगहे मित्र गमयाम्यशभां दशाम् ॥ १५५॥ हे मित्र ज्ञायते मित्रमापत्काले झुपस्थिते । खग्रहे गोपयित्वा मां तन्मैत्रौं च कृतार्थय ॥ १ ५ ६ ॥ महमित्रो जगादेवं मैत्री सम्प्रति नावयोः । तावदेवावयोमैत्री थावद्राजभयं नहि ॥१५७॥ त्वं ममाप्यापदे राजदूषितो महे वसन्। जर्णायुं ज्वलदूर्ण हि क्षिपेत्को ऽपि न वेशानि ॥१५॥ तवैकस्य कृते नाहमात्मान सकुटुम्बकम् । अनर्थ पातयिष्यामि बजान्यत्रास्तु ते शिवम् ॥ १५८ ॥ एव च सहमित्रेण मोमदत्तो ऽपमानितः । पर्वमित्रस्य मित्रम्य त्वरितं मदनं ययौ ॥ १.६ ० ॥ राज्ञो ऽप्रमादवृत्तान्तं पर्वमित्रस्य स द्विजः । तथैव कथथामाम तदाश्रयकृताशयः ॥ १६१ ॥ पर्वमित्रो ऽपि तत्पर्वमैच्या निक्रयकाम्यया । महत्या प्रतिपत्त्या तं ददर्शवमुवाच च ॥ १६२ ॥ वया पर्वखनेकेषु तेस्तैः सम्भाषणदिभिः । खेहप्रकारैर्मत्प्राणा अपि क्रौताः मखे ध्रुवम् ॥२ ६ ३ ॥