________________
२४०
वीरस्तुतिः । विपक्षाख्यवेश्याऽनुरागोऽपहेयः, सदा ब्रह्मचर्यानुरक्तैर्भवद्भिः । महावीरदेवस्य नाम्ना खकीयं, मुदा जैनसंघ सृजन्त्वन जैनाः ॥२८॥ यतो बन्धनान्मुक्तभावं व्रजन्तु, भवादुस्तराज्जन्मतो वापि दुःखात् । यदास्य प्रसंगं भवन्तश्च जैना, न जातु त्यजन्ति ब्रुवन्ति भवस्थाः ॥२९॥ जनो ब्रह्मचारी न कोऽप्यस्ति लोके, नितान्तं व्यभिचारवन्तं न रम्यं । महावीरतत्वोपदेशस्य सारमनेकान्तवादं बुधाश्चानमन्ति ॥ ३० ॥ भवन्तः सदैकान्तवादे प्रवृत्ताः, स्वतश्चेतरेषां न द्वात्रिंशदाख्यम् । खकं सम्प्रदायं विशुद्धं गदन्ति, तथाऽन्यं च निंदां हि कुर्वन्ति नित्यम् ।। यतो वर्धमानस्य वाचो भवन्तो, विलुपन्ति मिथ्यैव कि सत्यमेतत् ? । तदेवं भवन्तं हि जानन्ति सिद्धा, महाऽसत्यपापानुरागेऽनुरक्तम् ॥३२॥ ब्रुवन्तीह पक्षानुरागं विशेषमह चामुके सम्प्रदाये प्रवृत्तम् । सदा चेदृशं भावरोग त्यजन्तु, न हि स्याच्च कल्याणभावं कदापि ॥३३॥ परित्यज्य भेदात्मकी बुद्धिमुग्रां, तदा वर्धमानस्य सिद्धान्तमानम् । " विजानन्तु श्राद्धाश्च वीरं भजन्तु, सदाक्षेपवन्तो भवन्तो भवन्तु ॥३४॥
गुरुवों दीक्षायां ग्रहणसमये स्तेयकरणं, परित्याज्यं चेत्यं कथयति भवत्क्षेममनिशम् । परिशश्वद्यूयं प्रतिपदविवाद च कुरुथ, तदेवास्तेयाख्यं व्रतमपि प्रणष्टं प्रतिदिनम् ॥ ३५ ॥ ततो धर्मे नाशं ब्रजति भवतां वृत्तिरखिला, अतस्त्वत्तश्चौरो न हि सुभुवि कश्चिन्मुनिवर ! अतोऽनित्यं साधो ! परिहर मतालम्बनमहो! न हि स्यात्कल्याणं कचिदपि विशेष व्रतधर ! ॥ ३६ ॥ राग-द्वेषवियुक्तानां, समताभावमागताः। वीतरागाः प्रवर्तन्ते, साधवो न हि चेतरे ॥३०॥ त्वय्यस्ति यदि रागश्च, द्वेषभावस्तथापरः । देहभावोऽप्यहंभावोमोहमावस्तथैव च ॥ ३८ ॥ नो गतो यदि वो देहान्मुधैव वेपधा
4duate