SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 1 . २०६ ।"वीरस्तुतिः। . : ..': अमितगतिश्रावकाचारेऽपि रात्रिभोजनस्य निषेधः कृतः। यत्र राक्षसपिशाचसंचरो, यत्र जन्तुनिवहो न दृश्यते । यत्र मुक्तमपि वस्तु भक्ष्यते, यत्र घोरतिमिरं विजृम्भते ॥ यत्र नास्ति यतिवर्गसङ्गमो, यत्र नास्ति गुरुराजदर्शनम् । यत्र संयमविनाशि भोजनं, यत्र संसजति जीवमक्षणम् ॥ यत्रं सर्वशुभकर्मवर्जन, यत्र नास्ति गमनागमक्रिया; तत्र दोषनिलये दिनात्यये, धर्मध्यानकुशला न' भुंजते ॥ मुंजते निशि दुराशयाय के, गृद्धिदोषवशवर्तिनो जनाः । भूतराक्षसपिशाचशाकिनी, संगतिः कथममीभिरस्य च ॥ बल्भते दिननिशीथयोः सदा, यो निरस्तयमसंयमक्रियः । शृंगपुच्छशफसंगवर्जितो, भण्यते पशुरयं मनीषिभिः ॥ आमनन्ति दिवसेषु भोजनं, यामिनीषु शयनं मनीषिणः ।, ज्ञानिनामवसरेषु जल्पनं, शान्तये गुरुषु सेवनं कृतम् ॥ भुज्यते गुणवतैकदा सदा, मध्यमेन दिवसे द्विरुज्वले; येन रात्रिदिवयोरनारतं, भुज्यते स कथितो नराधमः ।। ये विवयं वदनावसनियोर्वासरस्य घटिकाद्वयं सदा । भुंजते जितहृषीकवाजिनस्ते भवंति भवभारवर्जिताः ॥ ये व्यवस्थितमहः सुसर्वदा, शर्वरीषु रचयन्ति भोजनम् । निम्नगामिसलिलं निसर्गतस्ते नयन्ति शिखरेपु शाखिनम् ॥ सूचयन्ति सुखदायि येऽगिनां, रात्रिभोजनमपास्तचेतनाः । पावकोद्धत्तशिखाकरालितं, ते वदन्ति फलदायिकाननम् ॥ . ये ब्रुवन्ति दिनरात्रिभोगयोस्तुल्यतां , रचितपुण्यपापयोः । ते प्रकाशतमसोः समानतां, दर्शयन्ति सुखदुःखकारिणोः ।।
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy