SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ११९ तथा च सत्येषु वाक्येषु यदनवा पापरहितं परपीडाऽनुत्पादकं वचनं तच्छेष्ठं वदन्ति । यथाह दशवैकालिके-- . . "तहेव काणं काणेति, पंडगं पंडगं ति वा वाहियं वावि रोगित्ति; तेण चोरेति नो वए।" तथा च मनुः। “सत्यं ब्रूयात्मियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं तन्नानृतं ब्रूयादिति"। एवमेव तत्वार्थसूत्रे__असदभिधानमनृतम् ॥ ९ ॥ ७ ॥ असदिति सद्भावप्रतिषेधोऽर्थान्तरं गर्दा च। तत्र सद्भावप्रतिषेधो नाम . सद्भूतनिन्हवोऽभूतोद्भावनं च । तद्यथा नास्त्यात्मा, नास्तिपरलोकः, इत्यादि भूतनिन्हवः । श्यामाकतण्डुलमानोऽयमात्मा अंगुष्ठपर्वमानोऽयमात्मा, आदित्यवर्णो, निष्क्रिय इत्येवमाद्यमभूतोदावनम् । अर्थान्तरं यो गां ब्रवीत्यश्वमश्वं च गामिति । गति हिंसापारुष्यपैशुन्यादियुक्तं वचः सत्यमपि गर्हितमनृतमेवास्तीति भावः । एतन्मध्य एतत्प्रमाणानि-यथा "क्रोधलोभमदद्वेषरागमोहादि कारणैः, असत्यस्य परित्यागः सत्याणुव्रतमुच्यते ।" "हासकर्कशपैशुन्यनिष्ठुरादिवचो मुचः । द्वितीयाणुव्रतं पूतं, लमंते देहिनः स्थितिम् ॥". । । "यद्वदन्ति शठा धर्म, यन्म्लेच्छेप्वपि निन्दितम् । ( वर्जनीयं त्रिधा वाक्यमसत्यं तद्धितोद्यतैः-॥" पुनर्यत्रासत्यप्रसंगः समजनि तत्र मौनं कार्य परमसत्यं न वाच्यं, यथा हि सागारधर्मामृते--- - :
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy