SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽः । महामोहः-श्रद्धायास्तनया इत्युपक्षेपेणोपायान्तरमपि हृदयमारूढम् । तथाहि - शान्तेर्माता श्रद्धा । सा च परतन्त्रा । तत् केनाप्युपायेनोपनिषत्सकाशोत् तावच्छद्धापकर्षणं कर्तव्यम् । ततो मातृवियोगदुःखादतिमृदुलतरा शान्तिरुपरता भविष्यति अवसीदन्ती वा विरंस्यति । श्रद्धां चाकष्टुं मिथ्याइष्टिरेव विलासिनी प्रगल्भेति तस्मिन विषये सैव नयोज्या । (पार्श्वतो विलोक्य) विभ्रमावति ! सत्वरमाहूयतां मिथ्यादृष्टिविलासिनी। विभ्रमावती-(क) जं देवो आणवेदि । (निष्क्रम्य मिथ्यादृष्टया सह प्रविशति ।) मिथ्यादृष्टिः-(ख) सहि ! चिरदिट्ठस्स महाराअस्स कंह मुहं पेक्खिस्सम् । णं महाराओ मं उवाळम्भिस्सदि। (क) यद् देव आज्ञापयति । (ख) सखि ! चिरदृष्टस्य महाराजस्य कथं मुखं प्रेक्षिष्ये । ननु महाराजो मामुपाला मारयमर्थः साध्य इमायाः खलु विरोध्युपक्षाणा क्रोधादिमिरुपायैरयमर्थः साध्य इत्यभाणि । सम्प्रति प्रसङ्गप्राप्तमुपायान्तरमैपत्यिाह-श्रद्धाया इति । श्रद्धायाः खलु विरोध्युपेक्षापूर्वककरणोपरमलक्षणा शान्तिर्भवति । अतस्तत्पारतन्त्र्यमित्यर्थः । श्रद्धाकर्षणोपायान्तरस्य फलमाह - तत इति । नास्तिकतालक्षणमिथ्यादृष्टिसम्पादिता हेला विभ्रमावती । यद्देव आज्ञापयति । मिथ्याष्टिः । सखि ! चिरदृष्टस्य महाराजस्य कथं मुखं प्रेक्षिष्ये। ननु महाराजो मामुपालम्भिष्यति । . १. 'न्तिर्नाम श्रद्धाप', २. 'शाच्छु', ३. 'गाद' ख. पाठः. ४. 'म' ग. पाठः. ५. 'मित्या' ख. प. पाठः. ६. 'का हे' ग. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy