SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याल्ये लोभः-तृष्णे! इतस्तावत् । __ (प्रविश्य ) तृष्णा- (क) अज्जउत्त! आणवेदु । लोभः--प्रिये! श्रूयतां-- क्षेत्रग्रामवनाद्रिपत्तनपुरद्वीपक्षमामण्डल प्रत्याशायतसूत्रबद्धमनसां लब्धाधिकं ध्यायताम् । - - (क) आर्यपुत्र ! आज्ञापयतु । भगवाननृतसम्मिश्रितमुखं दुरितोदयहेतुरिति छेदितवानित्यर्थः। कुशिकसुतः कौशिकः । यथा खलु विश्वामित्रो वसिष्ठप्रद्वेषात् तच्छिष्ये कल्माषपादनाग्नि नृपतौ कुतोऽपि कारणाद् विप्रशापप्रपीडिते कमपि राक्षसं समावेश्य तेन राक्षसेन वसिष्ठतनयानखिलानाघातयदभक्षयद् इत्यर्थः । एवं तावद् देवादीनां व्यापारो दर्शितः । अधुना मनुष्यानधिकृत्य दर्शयति- अपिचेत्यादिना । उद्धर्तुमुन्मूलायितुम् ॥३०॥ सर्वतः समादित्सारूपो लोभः कदाचिदप्यनलम्प्रत्ययरूपां भार्यामात्मसामर्थ्यप्रकटनायाह्वयति-तृष्णे इति । तृष्र्णो नाम सार्वत्रिकी निरड्डशेच्छा । उक्तं च --- "इदं मे स्यादिदं मे स्यादिति भेदविकल्पिता । मानसी साध्यविषया वृत्तिरिच्छेति कथ्यते ॥" इति । तृष्णा । आर्यपुत्र ! आज्ञापयतु । क्षेत्र केदारम् । पत्तनं नगरम् । पुरं राजाधिष्ठानम् । द्वीपाः जम्बूद्वीपादयः । क्षमामण्डलं भूमण्डलम् । एवमुक्तेष्वनुक्तेषु च प्रत्याशा परिजिहीर्षासहनम् । उक्तं च १. 'तहे' ख. पाठः. २. 'तच्छेदि', ३. 'को विश्वामित्रः । य',. ४, 'ष्णा सा' प. पाठः. ५. 'ते ॥" तृ' ख. पाठः. ६. 'तिम् । दी' स. घ. पाठ..
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy