SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ५४ प्रबोधचन्द्रोदये सव्याख्ये (नेपथ्ये) भो भोः पौराः ! एष खलु सम्प्राप्तो देवो महामोहः । तेन, निष्यन्दैश्चन्दनानां स्फटिकमणिशिलावेदिकाः संस्क्रियन्तां मुच्यन्तां यन्त्रमार्गाः प्रचरतु परितो वारिधारा गृहेषु ! उच्छ्रीयन्तां समन्तात् स्फुरदुरुमग्यः श्रेणयस्तोरणानां धूयन्तां सौधमूर्धस्वमरपतिधनुर्धामचित्राः पताकाः [॥ १५ ॥ दम्भः- आर्य ! प्रत्यासन्नोऽयं महाराजः । तत्प्रत्युद्गमनेन सम्भाव्यतामार्येण । 1 les अहङ्कारः एवं भवतु । (निष्कान्तौ ।) it (विष्कम्भकः ) (ततः प्रविशति महामोहो विभवतश्च परिवारः । ) महामोहः – (विहस्य) अहो, निरङ्कुशा जडधियः । आत्मास्ति देहाद् व्यतिरिक्तमूर्ति र्भोक्ता स लोकान्तरितः फलानाम् । आ॒ह्वोयमाकाशतरोः प्रसूनात् प्रथीयसः, स्वादुफलप्रसूतौ ॥ १६ ॥ यन्त्रमार्गाः सलिलनिष्यन्दप्रणाल्यः ।। १५ ।। . ... भिः विभवतः करिनरतुरगादिविभवैः कामक्रोधपरिवारैश्च परिवृत इत्यर्थः । निरङ्कुशाः- अविविच्यनिश्चितार्था इत्यर्थः । i तदेव दर्शयति - आत्मास्तीति । आत्मा नाम देहाद् व्यतिरिक्तः कश्चिदस्ति । स चास्मिन् शरीरे कर्माणि कृत्वा लोकान्तरं प्राप्य देहान्तरेणेहकृतस्याशुतरविनाशिनः कर्मणः फलं भोक्तेत्येतन्मनोरथमात्रम्, अस्मत्प्रत्यचगम्यं न भवतीत्यर्थः । प्रत्यक्षायोग्यस्य वस्तुनोऽनुपपत्तावुदाहरणमाह – आशेति ॥ १६ ॥
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy