SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽः। अहङ्कारः- (सभयम् ) यद्येवमशक्यप्रतकिार एवायमर्थः । यतः परममविदुषां पदं नराणां पुरविजयी करुणाविधेयचेताः । कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् ॥ १३ ॥ दम्भः -- सत्यमेतत । तथापि नैतत् कामक्रोधाभिभूतानां सम्भाव्यते । तथायुदाहरन्ति तैर्थिकाः यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥१४ ॥ पुरविजयी त्रिपुरहन्ता। किन्तु सोऽपि स्वतन्त्रो न भवतीत्याहकरुणेति । भवसागरपरिभ्रमणपरिखेदपरिदूयमानप्राणिनिवहानिरीक्षणसञ्जातबहलतरकरुणाविधेयं प्रवर्तनीयं चेतो यस्य स तथा । अतस्तया प्रेरितः कथयत्युपदिशति । प्रबोधं प्रत्यगब्रह्मणोरेकत्वविज्ञानम् । तं विशिनष्टि - भवेति । भवः संसारः स एव दुःखरूपत्वाद् भयं तेन कातरता विषादः तं तारयतीति तथोक्तम् । नराणामित्युपलक्षणम् । सर्वेषामप्यविमुक्तक्षेत्रवर्तिनामनन्यशरणानां कथयत्येवं भगवान् भवानीपतिरन्तकाल इत्यर्थः ॥१३॥ एवमपि न भेतव्यमित्याह - सत्यमिति । हस्तादिसंयतिरनिष्टाकरणम् । विद्या शास्त्रार्थज्ञानम् । तपो विहितानुष्ठानम् । कीर्तिः पुण्यनिमिता ख्यातिः । तीर्थफलं पुण्यफलम् ॥ १४ ॥ १. णिनिरी' ग. : .. 'णया प्र' क. ख. पार:. ३. 'व करुणामूर्तिरन्त' क. पाठ:.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy