SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । २३ मम अगदखिलं वरोरु! नाज्ञा मिदमतिलङ्घय धृति मुहूर्तमेति ॥ १३ ॥ तथाहि - अहल्याया जारः सुरपतिरभूदात्मतनयां __ प्रजानाथोऽयासीदभजत गुरोरिन्दुरबलाम् । इति प्रायः को वा न पदमपदेऽकार्यत मया श्रमो महाणानां क इव भुवनोन्माथविधिषु ॥१४॥ रतिः - (क) अज्जउत्त! एवं एदं । तहवि महासहाअसम्पण्णो सङ्गिदव्वो अरादी । जदोम्स जमणिअमप्पमुहा अमचा महाबळा सुणीअन्दि । कामः-प्रिये! यानेतान् राज्ञो विवेकस्य बलवतो यमादीनष्टावमात्यान् पश्यनि, त एते नियतमस्माभिरभियुक्तमा. त्राद् द्रागेव विघटिष्यन्ते । तथाहि - (क) आर्यपुत्र ! एवमेतत् । तथापि महासहायसम्पन्नः शक्तिव्योऽरातिः । यतोऽस्य यमनियमप्रमुखा अमात्या महाबलाः श्रूयन्ते । अपि यदीति-समस्तमिदं जगत् कामपरवशमेवेत्यर्थः ॥१३॥ तदेव दर्शयति - अहल्याया इत्यादिना । अपदे अशास्त्रीये विषये को वा पदं न प्रापितः । उन्मायो नाम सर्वसायसम्पादनम् ॥ १४ ॥ रतिः । आर्यपुत्र ! एवमेतत् । तथापि महासहायसम्पन्नः शङ्कितव्योऽरातिः । यतोऽस्य यमनियमप्रमुखा अमात्या महाबलाः श्रूयन्ते । । __ नन्वते यमादयो वराका अस्मत्सम्प्रयोगमात्रादेव स्वस्वरूपेणैव वियोक्ष्यन्त इत्याह - प्रिये इत्यादिना । अभियुक्तमात्रात् सम्प्रयोगादेव केवलं द्राक् झटिति विघटिष्यन्ते शकलीकरिष्यन्त । १. 'थे' ख. पाठः. २. 'थनं ना' ख. ग. पाठः. ३. 'न्तीत्या' घ. पाठ:.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy