________________
२२
प्रबोधचन्द्रोदये सव्याख्ये अपिच रम्यं हयंतलं नवाः सुनयना गुञ्जहिरेफा लताः
प्रोन्मीलन्नवमल्लिकासुरभयो वाताः सचन्द्राः क्षपाः । इत्येतानि जयन्ति हन्त परितः शस्त्राण्यमोघानि मे
तद् भोः! कीगसौं विवेकविभवः कीदृक् प्रबोधोदयः॥
रतिः- (क) अज्जउत्त ! गरुओ क्खु महाराअमहामोहस्स पडिवक्खो विवेओ तितकेमि ।
कामः-प्रिये! कुतस्तवेदं स्त्रीस्वभावसुलभं विवेकाद भयमुत्पन्नम् । पश्य --
अपि यदि विशिखाः शरासनं वा
कुसुममयं ससुरासुरं तथापि । (क) आर्यपुत्र ! गरीयान् खलु महाराजमहामोहस्य प्रतिपक्षो विवेक इति तर्कयामि ।
"संन्यासिनोऽपि दृश्यन्ते दैवसन्दृषिताशयाः ।" इति न्यायादमृदितकषायाणामन्तःकरणगुहायामेव कामादिप्रतिबन्धसद्भावमाह - नेपथ्ये इत्यादिना । ससम्भ्रममिति । यदा खलु कामादिप्रतिबन्धोऽङ्कुरितस्तदैवास्य चपलमालोचनं भवतीत्यर्थः । अधुना पुरुषार्थविरोधिषु रतिपतिरेव प्रधान इति तद्विलासमेव तावदाह - उत्तुङ्गेत्यादिना । तदपसरणमिति । मनसिजप्रतिबन्धेनाधिकारित्वं विनष्टप्रायमिति भावः । ततः प्रविशति यथानिर्दिष्टः काम इति । सम्प्रति कामाधीनमेव जातं -जगदित्यर्थः । कामाधीनतामेव दर्शयति - रेरे इत्यादिना । अल्पमप्यवकाशं प्रतिलभ्यात्माधीनतामेवापादयत्यनङ्ग इति भावः ।
हऱ्यातलं सौधशिखरम् । द्विरेफाः शिलीमुखाः ॥ १२॥
रतिः। आर्यपुत्र ! गरीयान् खलु महाराजमहामोहस्य प्रतिपक्षो विवेके इति तर्कयामि । . १. 'प्रथम इ' ख. पाठः. २ 'ल्पं स्वल्पम' ग. घ. पाठ:.