SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१० प्रबोधचन्द्रोदये सव्याख्ये षष्ठोऽङ्कः । तथापीदमस्तु - - ( भरतवाक्यम् ।) पर्जन्योऽस्मिन् जगति महतीं वृष्टिमिष्टां विधत्तां राजानः क्ष्मां गलितविविधोपल्लवां पालयन्तु । तत्त्वोन्मेषापहततमसस्त्वत्प्रसादान्महान्तः संसाराब्धि विषयममतातङ्कपङ्कं तरन्तु ॥ ३५ ॥ (इति निष्क्रान्ताः सर्वे ) इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके जीवन्मुक्तिर्नाम षष्ठोऽङ्कः ॥ यद्यप्येवं भगवत्याः प्रसादेन कृतकृत्य एवाहं, तथापि 'प्रत्यक्षष्टा देवता सम्प्रसन्ना वरमदातुं नाईती 'ति वचनात् कञ्चिदर्थं समर्थय इत्याह - तथापीदमस्त्वित्यादिना । इदानीं प्रार्थनाप्रकारप्रदर्शनेन नाटकार्थमुपसंहरन् आशीर्वादलक्षणं मङ्गलं सम्पादयति – पर्जन्योऽस्मिन्नित्यादिना । इष्टामभिलषिताम् । गठितविविधोपप्लवां प्रभ्रष्टाशेषानर्थाम् । त्वत्प्रसादात् तव भगवत्याः प्रसादात् अनुग्रहात् । महान्तः सज्जनाः तत्त्वापरोक्ष्येणापहततमस्तोमावलीकाः दुरुच्छेद्याहम्ममाभिमानव्याधिजम्बालनिकुरुम्बाकुलं संसाराधि तरन्तु देव्याः प्रसादादित्यर्थः ॥ ३५ ॥ नाव्यपरिसमाप्तिं दर्शयति – निष्क्रान्ताः सर्व इति ॥ - इति श्रीमत्परमहंसपरिव्राजक श्रीमत्प्रकाश तीर्थ भगवत्पूज्यपादचिष्वेण गोविन्दामृतभगवता कृते नाटकाभरणे षष्ठोऽङ्कः ॥ शुभं भूयात् ॥
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy