SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १०९ पुरुषः-देव्या विष्णुभक्तेः प्रसादात् किं नाम दुष्करम् । (इति पादयोः पतति ।) विष्णुभक्तिः -- (पुरुषमुत्थापयति) उत्तिष्ठ वत्स! । किं ते भूयः प्रियमुपहरामि। पुरुषः-- किमतः परमपि प्रियमस्ति । यतः -- पूर्व तावद् विवेकप्रमुखनिजबलैनिर्जिते सानुबन्धे __ मोहेऽस्माकं कुलारौ तदनु समुदिते हन्त वैराग्ययोगे । शान्तिश्रद्धादियत्नात् पुनरुपनिषदा साधितात् सम्प्रयोगा__दस्माभिस्त्वत्प्रसादा ध्रुवमयमधुना लब्ध एव प्रबोधः॥ संसारापारसिन्धुप्लवकुशलमहाकर्णधारे मुरारौ भक्तिर्मुक्तेः परा सा प्रसरतु जननी सार्वकालं जनस्य । किश्चान्यत् स्वप्रकाशं परतरममलज्योतिरानन्दसान्द्रं शान्तात्मानो मुनीन्द्राःप्रमुदितमनसः सन्ततं भावयन्तु॥ प्रशान्तारातिरगमद् विवेकः कृतकृत्यताम् । नीरजस्के सदानन्दे पदे चाहं निवेशितः॥ ३४॥ . . ... प्रकर्षणोन्मूलितमोहादिलक्षणारातिं भवन्तं पूर्णानन्दरूपं पश्यामि, तस्मात् सम्पूर्णा मे मनोरथा इत्यर्थः ॥ नीरजस्के निवृत्तानर्थे । सदानन्दे परमात्मपदे । निवेशितः अमिषेचितः । यस्मात् सहविवेकस्य मम कृतं कृत्यं प्राप्तं प्रापणीयं, तस्मादतःपरं प्रार्थ्यं नास्तीत्यर्थः ॥ ३४॥ १. निजरूपं क.ब.प. पाठ:. २. 'तःप्र" ग. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy