SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७० प्रबोधचन्द्रोदये सव्याख्ये __ सरस्वती-शमदमसन्तोषादयश्च पुत्रास्त्वामुपचरन्तु। यमनियमादयश्चामात्याः । विवेकोऽपि त्वदनुग्रहादुपनिषद्देव्या सह यौवराज्यमनुभवतु । एताश्च मैत्र्यादयश्चतस्रो भगिन्यो भगवत्या विष्णुभक्त्या तव प्रसादनाय प्रहितास्ताः सप्रसादमनुमानय। मनः -यदादिशति देवी ! मूर्ध्नि निवेशिताः सर्वा एवाज्ञाः। (इति सहर्ष पादयोः पतति ।) __ सरस्वती- यमनियमादयश्चामात्याः सादरमायुष्मता द्रष्टव्याः । एतैरेव सहायुष्मान साम्राज्यमनुतिष्ठतु । त्वयि च स्वास्थ्यमापन्ने क्षेत्रज्ञोऽपि स्वां प्रकृतिमापत्स्यते । यतः शमः अन्तःकरणोपशमः । दमो नाम पहिष्करणोपशमः । सन्तोषो नाम सजातालम्प्रत्ययत्वम् । उक्तं च "यदृच्छालामतो नित्यमलं पुंसो भवेदिति । या धीस्तामृषयः प्राहुः सन्तोषं सुखलक्षणम् ॥" आदिशब्देन तपःस्वाध्यायादयो गृह्यन्ते । वैराग्यानन्तरमावित्वात् पुत्राः। शमदमादयस्त्वामुपचरन्तु परिचरन्त्वित्यर्थः । यमादयस्त्वारादुपकारकत्वादमात्यवदमात्याः । मोक्षराज्याभिषेकप्राप्तेः पूर्वरूपत्वाद् विवेक एवं युवराज इत्यर्थः ।। यमनियमादय इत्यादिशब्देन प्रत्याहारादयो गृपन्ते । एतैरिति । आ मोक्षादवश्यानुष्ठेया एवैत इत्यर्थः । सम्राड्भावः साम्राज्यमपराधीनतयात्मविषय एवावस्थितिः । तव स्वास्थ्यात् लाभान्तरमप्यस्तीत्याह-क्षेत्रज्ञोऽपीति । स्वां प्रकृति निसर्गसिद्धपरमात्मस्वरूपमेव भवतीत्यर्थः । १. 'व्यभेदीय'. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy