________________
चतुर्थोऽः।
१३९ खण्डेन्दुचूडप्रिय! प्रौढदोर्दर्पविभ्रान्तमन्थाचलक्षुब्धदुग्धा. म्बुधिप्रोत्थितश्रीभुजावल्लरीसंश्लेषसंक्रान्तपीनस्तनाभोगपत्रावलोलाञ्छितोरःस्थल ! स्थूलमुक्ताफलोत्तारहारप्रभामण्डलप्र. स्फुरत्कण्ठ ! वैकुण्ठ ! भक्तस्य लोकस्य संसारमोहच्छिदं देहि
न्तान्मममाप्लुतं लोकानां त्रयं यस्य स तथोक्तः। त्रिभुवनरिपुश्चासौ कैटभश्च तस्योद्दण्ड उद्बणः कण्ठो गल तत्र स्थितानामस्थ्नां कूटवत् कठिनत्वात् कूटः समूहः तत्र स्फुटोन्मार्जितस्य दृढतजितस्योदात्तचक्रस्य उद्बणसुदशनस्य स्फुरज्ज्योतिरेव सर्वतः प्रद्यातमानीप्तिरेव उल्कानामुल्मुकानां शतैः उड्डामरः भयङ्करः उद्दण्डः उद्घणः दोर्दण्डो बाहुदण्डो यस्य भगवतः स तथोक्तः । खण्डन्दुरर्धेन्दुः चूडा कपर्दः यस्य चूडायां चन्द्रखण्डः स खण्डेन्दुचूडः तस्य प्रिय इष्टः । अथवा खण्डन्दुचूडः चन्द्रार्धमौलिः प्रियो यस्य स तथोक्तः । प्रकर्षण ऊढः प्राप्तः दोष्णादपों बाहुबलं तेन वि. भ्रान्तः परिभ्रमितः मन्थाचला मन्दरपर्वतः तन क्षुब्धाद् विलोलिताद् दुग्धाम्बुधेः क्षीरसमुद्रात् प्रास्थितायाः श्रियो भुजा एव वलरी पल्लववल्ललितत्वाद् वल्ली तया संश्लेषः स्वयंग्रहदृढपरिष्वङ्गः तदानीं मुद्रामुद्रितप्रतिमुद्रान्यायन सम्यगाकान्तपीवरम्तनयाराभागः सर्वलक्षणपोष्कल्यं तत्र स्तनाभोगे काश्मीरकस्तूरिकादिगन्धद्रव्यः पतिरूपण विरचितपत्रावल्या लाञ्छितमुरःस्थलं यस्य स तथोक्तः । लक्ष्म्याः प्रसारितकुड़मलितपुलकितकरपल्लवस्वयंग्रहाश्लेष. मयसंक्रान्तस्तनतटविरचित चर्चनाचिहितं विशालं वक्षःस्थलं यस्य भगवतः स तथेत्यर्थः । स्थूलमुक्ताफलैरुत्तारस्य उत्कट दीप्यमानस्य हारस्य प्रभाया मण्डलंन पटलेन प्रकर्षेण स्फुरन् कण्ठो यस्य स तथोक्तः । हे वैकुण्ठ !। भक्तस्य लोकस्य भक्तजनस्य अनन्यशरणस्य जनस्य । जननमरणगर्भवासादिलक्षणः संसार एव मोहः अज्ञानं तस्य छे. दनशीलं नाशकस्वभावं देहि प्रयच्छ बाधस्य ज्ञानस्य उदयमुत्पत्तिम् ।
५. 'र: परिभ्रमणं सर्वतः परिधीमतालात चक्रवज्जाज्वल्यमानदीप्तिनिवहन ग' ग. इ. पायः. २. 'स्य उच्चकै : पृथुतरस्य दी' प. पा::
T2