SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः । १०९ णत्थि जळे णत्थि वणे णत्थि गिळिबिळेसु णत्थि पाआळे । सा विष्णुभक्तिसहिदा णिवसइ हिअए महप्पाणम् ॥ २४ ॥ करुणा -- (सानन्दम् ) सहि ! दिडिआ वढसि । सुदं । विष्णुभत्तीए देवीए पासवट्टिणी सद्धेति । शान्तिः - (हर्षं नाटयति ।) भिक्षुः- अथ धर्मस्य कामादपक्रान्तस्य कुत्र वृत्तिः । . (पुनर्गणयित्वा ) क्षपणकः (क) णत्थि जळे विणे णत्थि गिळिबिळेसु णत्थि पाआळे 1 सो विष्णुमतिसहिदो वत्तइ हिअए महप्पाणम् ॥ २५ ॥ कापालिकः - (सविषादम् ) अहो महत् कष्टमापतितं महाराजस्य । तथाहि (क) नास्ति जले नास्ति वने नास्ति गिरिबिलेषु नास्ति पाताले । स विष्णुभक्तिसहितो वर्तते हृदये महात्मनाम् ॥ २५ ॥ नास्ति जले नास्ति वने नास्ति गिरिबिलेषु नास्ति पाताले । सा विष्णुभक्तिसहिता निवसति हृदये महात्मनाम् || अत्र महात्मानोऽक्षुद्रबुद्धयः विहितानुष्ठातारः ॥ २४ ॥ सखि । दिष्ट्या वर्धसे । श्रुतं विष्णुभक्त्या देव्याः पार्श्ववर्तिनी श्रद्धेति । -- पृच्छति इति । हन्त तर्हि धर्मोऽपि नूनं न कामानुगतो भविष्यतीत्याकुलाशयः अथ धर्मस्येति । ― सोऽपि काम्यप्रतिषिद्धपरित्यागेन महात्मभिरेव सम्पाद्यमानस्तदाशयवैशारद्यमापाद्य प्रत्यक्प्रावण्यं कुर्वन् अत्रैव वर्तत इत्याह - नास्तीति ॥ २५ ॥ विषादो नाम कर्तव्यकरणलम्पटत्वम् । उक्तं च - “कार्याक्षमत्वं चित्तस्य विषादो दुःखपीडनात् । ” 'स्तीत्यादि पठति' क. पाठः. २. 'णानलम्पटुत्व' ख. घ. पाठः,
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy