SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याख्ये कापालिकः - प्रिये ! अमूल्यक्रीतं दासद्वयं लब्धम् । तन्नृत्यावस्तावत् । #加密 (उभौ नृत्यतः ।) क्षपणकः अळे भिक्खु ! एसो कावाळिओ, अहो पमादो, आचाळिओ कावाळिणीए सद्धं सोहणं णच्चेदि । ता एदाए सद्धं अवि णचह्न | भिक्षुः – आचार्य ! महाश्चर्यमेतद्दर्शनम् । यत्राक्लेशमभिमतार्थसिद्धयः सम्पद्यन्ते । (मदस्खलितं नृत्यतः । ) क्षपणकः 'अयि पीणघणत्थाणि (इत्यादि गायति ।) कापालिकः - कियदेतदाश्चर्यम् । पश्य, - यत्रानुज्झितवाञ्छितार्थविषयासङ्गेऽपि सिध्यन्त्यमूः प्रत्यासन्नमहोदयप्रणयिनामष्टौ महासिद्धयः । अरे भिक्षुक ! एष कापालिकः अहो प्रमादः, आचार्यः कापालिन्या सार्धं शोभनं नृत्यति । तस्मादेताभ्यां सहावामपि नृत्यावः । अयि पीनघनस्तनीत्यादि । कियदेतदाश्चर्यमिति । अल्पं स्वल्पमित्यर्थः । आश्चर्यान्तरमपि पश्येत्याह — यत्रेति । यस्मिन् कापालिके दर्शने । बच्झतोऽपरिहृतः वाञ्छितार्थस्त्र्यादिलक्षणः स एव विषयः तत्रासङ्गे सस्यपीत्यर्थः । अमूः महासिद्धयः सिध्यन्तीत्यन्वयः । कथं मूढानामित्याह - प्रत्यासन्नेति । निकटवर्तिकल्याणेतर विभूत्याकांक्षिणां सुकृतिनामित्यर्थः । महासिद्धयो अणिमागरिमादयः । वश्यमाभिमुख्यकरणम् । आकर्षणं दूरा १. 'तो वा', २. 'णगुणतर' ग पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy