________________
तृतीयोऽरः। कापालिकः - (स्वगतम्) अये अश्रद्धाक्षिप्तमनयोरन्तःकरणम् । भवत्वेवं तावत् । (प्रकाशम् ) श्रद्धे! इतस्तावत् ।
(ततः प्रविशति कापालिनीरूपधारिणी श्रद्धा ।) करुणा-सहि ! पेक्ख रजसस्सुदा सद्धा । सा एसा, विपुळ्ळणीळप्पळळोळळोअर्णी
नळत्थिमाळाकिदचाळुभूसणा । णिअम्बपीणत्थणभाळमन्थळा
विहादि पुण्णेन्दुमुही विलासिणी ॥ १७॥ श्रद्धा- (परिक्रम्य) एसामि । आणवेदु सामी ।
कापालिकः - प्रिये ! एनं दुरभिमानिनं भिक्षु तावद् गृहाण ।
श्रद्धा-(भिक्षुमालिङ्गति।) भिक्षुः-(सानन्दं परिष्वज्य रोमाञ्चमभिनीय जनान्तिकम् ) अहो सुखस्पर्शा कापालिनी । तथाहि , रण्डाः पीनपयोधराः कति मया चण्डानुरागाद् भुज
द्वन्द्वापीडितपीवरस्तनभरं नो गाढमालिड़िताः।
करुणा। सखि! पश्य रजसः सुता श्रद्धा । सैषा। विफुलनीलोत्पललोललोचना नरास्थिमालाकृतचारुभूषणा । नितम्बपीनस्तनभारमन्थरा विभाति पूर्णेन्दुमुखी विलासिनी ॥१७॥ एषास्मि । आज्ञापयतु स्वामी।
न चात्र रण्डानामास्थामावाद् एवंविधसौख्याभाव इति शङ्कनीयमित्याह-चण्डेति । कापालिनी नाम काचन योगिनी वश्याकर्षणादिषु
१. 'वं मियः सौ' ग. पाठः.