SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ सू०६७४] . पत्रविचारः लामो-"विदु लाभे" [ इति वचनात् ! यस्य सकला वित् वृणोति प्रच्छादयतीत्यौणादिके गे वर्ग इति भवति । सकलविच्चासौ वर्गश्चेति सकलविद्वर्ग:-पट इत्यर्थः। तेन तुल्यं वर्त्तते इति सकलविद्वर्गवत् । एतच्च तन्वादि एवमनादिरवायनीयप्रकारं तत्तस्माद्बुद्धिमत्कारणमिति । तदेतदसमीचीनम् ५ अनुमानाभासत्वादस्य । तदामासत्वं च तदवयवानां प्रतिज्ञाहेतू. दाहरणानां कालात्ययापदिष्टत्वाधनेशदोषदुष्टत्वेन तदाभासत्वात्सिद्धम् । एतश्चेश्वरनिराकरजप्रकारमाद्विशेषतोदगन्तव्यम् । ननु चोक्तलक्षणे पत्रे केनचित्कमप्युद्दिश्यावलम्बिते तेर्ने च गृहीते मिन्ने च यदा पत्रस्य दातैवं ब्रूयात् 'नायं मदीयपत्रस्यार्थः' १० इति, तदा किं कर्तव्यमिति चेत् । तदासौ विकल्प्य प्रष्टव्यः कोथं भवत्पत्रस्यार्थी नाम-किं यो भवन्मनसि वर्तते सोस्यार्थः, वाक्यरूपात्पत्रात्प्रतीयमानो वा स्यात्, भवन्मनसि वर्तमानः ततोपि च प्रतीयमानो वा प्रकारान्तरालम्भवात् ? तत्र प्रथमपक्षे पत्रावलम्बनमनर्थकम् । तद्वि(द्धि)प्रतिवादी समादाय विज्ञा-१५ तार्थखरूपस्तत्र दूषणं वदतु विपरीतस्तु निर्जितो भवत्वित्यवले. म्ब्यते । यश्च तस्मादर्थः प्रतीयते नासौ तदर्थ इति न तत्र केनचित्साधनं दूपणं वा वक्तव्यमनुपयोगात् । यस्तु तदर्थों भवञ्चेतसि वर्तमानो नाली कुतश्चित्प्रतीयते परचेतोवृत्तीनां दुरन्वयत्वादिति ? तत्रापि न साधनं दूषणं वा सम्भवति । न २० ह्यप्रतीयमानं वस्तु साधनं दूषणं वाहत्यऽतिप्रसङ्गात् । यदि पुनरन्यतः कुतश्चित्तं प्रतिपद्य प्रतिवादी तंत्र साधनादिकं ब्रूयात्; तर्हि पत्रावलम्वनानर्थक्यम् । तत एव तत्प्रतिपत्तिश्वेच्चित्रमेतत्-तस्यासावों न भवति ततश्च प्रतीयते' इति, गोशब्दादप्यश्वादिप्रतीतिप्रसङ्गात् । सङ्केते सति भवतीति चेत्कः२५ सङ्केतं कुर्यात् ? पत्रदातेति चेत्; किं पत्रदानकाले, वादकाले 'वा, तथा प्रतिवादिनि, अन्यत्र वा? तदानकाले प्रतिवादिनीति चेत्, न तथा व्यवहाराभावात् । न खलु कैश्चिद् ‘अयं मम चेत १ अनुमानस्य । २ वादिना । ३ प्रतिवादिनम् । ४ प्रतिवादिना । ५ शातार्थे । ६ अर्थ विचार्य पत्रे खण्डीकृते । ७ प्रतिवादिना। ८ कथम् । ९ तत् पत्रम् । १० व्यवहर्तृभिः । ११ प्रमाणात् । १२ अन्वयो-निश्चयः। १२ चेतसि वर्तमानेथेपि। १४ चेतोवर्तमानपत्रार्थम् । १५ चेतोवर्तमानपत्रार्थे । १६ तस्य चेतसि वर्तमानपत्रार्थस्य । १७ चेतसि वर्तमानः । १८ पत्रादप्रतीयमानोऽपि चेतसि वर्तमानपत्रार्थः सङ्केतकाले तदर्थो भविष्यतीत्याशङ्कयाह । १९ पुरुषान्तरे। २० पत्रदानकाले प्रतिवादिनि सङ्केतप्रकारेण। २१ वादी।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy