________________
६५०
प्रमेयकमलमार्तण्डे ९. तदाभासपरि० वैधवेयो नवकम्वलत्वादेवदत्तवत्' इति प्रयोग यदि वक्तः 'नवः कम्बलोस्येति, नवास्य कम्वलाः' इति चार्थद्वयं 'नवकस्वलः' इति शब्दस्याभिप्रेतं भवति तदा-'कुतोस्य नव कस्वलाः' इति प्रत्यकतिष्ठमानो हेतोरसिद्धतामेवोद्भावयति । अन्यस्तु तदुभयार्थसम५र्थनेन तदेकतरार्थसमर्थनेन वा हेतुसिद्धिं प्रदर्शयति । नवस्तावदेकः कम्बलोस्य प्रतीतो भवता, अन्येऽप्यष्टौ कस्वला गृहे तिष्ठन्तीत्युभयथा नवकम्वलत्वस्य सिद्ध सिद्धतोद्भावनीया। नवकम्वलयोगित्वस्य वा हेतुत्वेनोपादानात्सिद्ध एव हेतुः। इति
स्वपक्षसिद्धौ सत्यामेव वादिनो जयः परस्य च पराजयो २० नान्यथा। तन्न वाक्छलं युक्तम् ।
नापि सामान्यच्छलम् । तस्य हि लक्षणम्-“सम्भवतीर्थस्यातिसामान्ययोगादसद्भूतार्थकल्पना सामान्यच्छलम्" [ न्यायसू० श।१३] इति । तथा हि-'विद्याचरणसम्पत्ति ह्मणे सम्भवेत्' इत्युक्तेऽस्य वाक्यस्य विघातोऽर्थविकल्पोपपत्त्याऽसद्भूतार्थकल्प१५ नया क्रियते । यदि ब्राह्मणे विद्याचरणसम्पत्सम्भवति बोत्येपि
सम्भवेद्राह्मणत्वस्य तत्रापि सम्भवात् । तदिदं ब्राह्मणत्वं विवक्षितमर्थ विद्याचरणसम्पल्लक्षणं 'क्वचिद्राह्मणे तादृश्येति क्वचित्तु ब्रात्येऽत्येति तावेपि भाँवात्' इत्यतिसामान्यम्, तेन योगा
द्वक्तुरभिप्रेतादर्थात्सद्भूतादन्यस्यासद्भूतार्थस्य कल्पना सामान्य२० च्छलम् । तच्चायुक्तम् ; हेतुदोषस्यानकान्तिकत्वस्यात्रापरेणो
द्भावनात् । न चानैकान्तिकत्वोद्भावनमेव सामान्यच्छलमें; 'अनित्यः शब्दः प्रमेयत्वाद्धटवत्' इत्यादेरपि सामान्यच्छलत्वानुषङ्गात् । अत्रापि हि प्रमेयत्वं क्वचिद्धटादावनित्यत्वमेति, आका
शादौ तदभावेपि भावादत्येतीति । तथाप्यस्यानैकान्तिकत्वेपि २५ प्रकृतेपि तदस्तु विशेषाभावात् । तन्न सामान्यच्छलमप्युपपन्नम्।
१ प्रतिवादी । २ वादी । ३ प्रतिवादिना । ४ अन्येप्यष्टौ गृहे तिष्ठन्तीति, नवकम्बलयोगित्वस्य वा हेतुत्वेनोपादानात्सिद्ध एव हेतुरित्युभयथा नवकम्बलत्वस्य सिद्धर्नासिद्धतोद्भावनीया, इति स्वपक्षसिद्धौ सत्यामेव वादिनो जयः परस्य च पराजयो नान्यथेति वाक्यरचना द्रष्टव्या। ५ नवो नूतनः। ६ स्वपक्षसिध्यभावे जयपराजयो न भवतो वादिप्रतिवादिनोरिति । ७ जायमानस्य । ८ अयं विद्याचरणसम्पत्तिमान्भवति ब्राह्मणत्वात्तादृशब्राह्मणवदिति । ९ वादिना । १० अर्थस्य विकल्पो भेदस्तस्योपपत्त्या कृत्वा । ११ तर्हि। १२ भ्रष्टे ब्राह्मणे । १३ कर्तृ । १४ व्यक्तयन्तरे सपक्षे । १५ प्राप्नोति । १६ विपक्षरूपे। १७ विद्याचरणसम्पलक्षणमर्थ ब्राह्मणत्वं अतिक्रम्य वर्तते इत्यर्थः । १८ ब्राह्मणत्वस्य । १९ अतिशयेन ब्राह्मणत्वम् । २० अनुमाने । २१ अन्यथा । २२ अनुमाने । २३ अतिसामान्ययोगेपि ।