________________
६२६
प्रमेयकमलमार्तण्डे ४. विषयपरिः अत आह-हानोपादानोपेक्षाश्च प्रमाणाद्भिन्न फलम् । अत्रापि कथञ्चिद्भेदो द्रष्टव्यः । सर्वथा भेदे प्रमाणफलव्यवहारविरोधात । अमुसेवार्थ स्पष्टयन् यः प्रमिमीते इत्यादिना लौकिकेतरप्रति पत्तिप्रसिद्धा प्रतीतिं दर्शयति५ यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त
उपेक्षते चेति प्रतीतेः ॥ ५॥३॥ यः प्रतिपत्ता प्रमिमीते स्वार्थग्रहणपरिणामेन परिणमते स एव निवृत्ताज्ञानः स्वविषये व्यामोहविरहितो जहात्यभिप्रेतप्रयो
जनाप्रसाधकमर्थम्, तत्प्रसाधकं त्वादत्ते, उभयप्रयोजनाऽन१० साधकं तूपेक्षणीयमुपेक्षते चेति प्रतीतेः प्रमाणफलयोः कथ. श्चिद्भेदाभेदव्यवस्था प्रतिपत्तव्या ।
नेन्वेवं प्रमातृप्रमाणफलानां भेदाभावात्प्रतीतिप्रसिद्धस्तद्व्यव. स्थाविलोपः स्यात्, तदसाम्प्रतम् ; कथञ्चिल्लक्षणभेदतस्तेषां
भेदात् । आत्मनो हि पदार्थपरिच्छित्तौ साधकतमत्वेन व्यानि-, १५ यमाणं स्वरूपं प्रमाणं निर्व्यापारम्, व्यापारं तु क्रियोच्यते,
खातन्येण पुनर्व्याप्रियमाणं प्रमाता, इति कथञ्चित्तद्भेदः । प्राक्तनपर्यायविशिष्टस्य कथञ्चिदवस्थितस्यैव बोधस्य परिच्छि-' त्तिविशेषरूपतयोत्पत्तेरमेद इति । साधनभेदाच्च तद्भेद, करणसाधनं हि प्रमाणं साधकतमस्वभावम् , कर्तृसाधनस्तु २० प्रमाता खतन्त्रखरूपः, भावसाधना तु क्रिया स्वार्थनिर्णीतिस्वभावा इति कथञ्चिद्भेदाभ्युपगमादेव कायकारणभावस्याप्यविरोधः। . यच्चोच्यते-आत्मव्यतिरिक्तक्रियाकारि प्रमाणं कारकत्वाद्वा
स्यादिवत् । तत्र कथञ्चिद्भेदे साध्ये सिद्धसाध्यता, अज्ञाननिवृत्ते. २५ स्तद्धर्मतया हानादेश्च तत्कार्यतया प्रमाणात्कथञ्चिद्भेदाभ्युपगमात् । सर्वथा भेदे तु साध्ये साध्यविकलो दृष्टान्तः, वास्यादिना
१ इतरः शास्त्रज्ञः। २ यः प्रतिपत्ता प्रमिमीते इत्यादिप्रकारेण । ३ आत्मस्व. रूपम् । ४ परिच्छित्तिरूपा। ५ प्रमाणस्य । ६ फलरूपतया। ७ साधनं करण. कादि । ८ प्रमातृप्रमाणपरिच्छित्तिभेदः। ९ करणे साधनं व्युत्पादनं यस्य, प्रमीयते वस्तुतत्त्वं येनेति तत्करणसाधनं प्रमाणम् । १० कर्तरि साधनं व्युत्पादन यस्य प्रमातुः, प्रमिमीते इति तथोक्तः । ११ प्रमितिः प्रमाणम् । १२ यः प्रतिपत्ता प्रमिमीते इत्यनेन प्रकारेण प्रमाणफलयोरभेदे कार्यकारणभावविरोध इत्युक्ते सत्याह । १३ भात्मा स्वरूपम्।