________________
सू० ४।१० 1
समवायपदार्थविचारः
६२१
तद्विशेषणता दृष्टा । न च समवायसमवायिनां सम्वन्धान्तराभिसम्बद्धत्वम्; अनभ्युपगमात् ।
किञ्च, विशेषेणभावोप्येतेभ्योत्यन्तं भिन्नस्तत्रैव कुतो नियाम्येत ? समवायाच्चेत्; इतरेतराश्रयः समवायस्य नियमसिद्धौ हि ततो विशेषणभावस्य नियमसिद्धिः तत्सिद्धेश्व समवायस्य ५ तत्सिद्धिरिति ।
3
9
किञ्च, अयं विशेषणभावः षट्पदार्थेभ्यो भिन्नः अभिन्नो वा ? भिन्नश्चेत्; किं भावरूपः, अभावरूपो वा ? न तावद्भावरूपः 'पडेव पदार्थाः' इति नियमविरोधात् । नाप्यभावरूपः; अनभ्युपगमात् । अभेदेपि न तावद्द्रव्यम्; गुणाश्रितत्वाभावप्रसङ्गात् । अत एव १० न गुणोपि । नापि कर्मः कर्माश्रितत्वाभावानुषङ्गात् । "अकर्म कर्म" [ ] इत्यभिधानात् । नापि सामान्यम् ; समवाये तदनुपपत्तेः, पदार्थत्रयवृत्तित्वात्तस्य । नापि विशेषः विशेषाणां नित्यद्रव्याश्रितत्वात् । अनित्यद्रव्ये चास्योपलम्भात् समवाये चाभावानुषङ्गात् । युगपदनेकसमवायिविशेषणत्वे चास्यानेकत्व - १५ प्राप्तिः । यदिह युगपदनेकार्थविशेषणं तदनेकं प्रतिपन्नम् यथा दण्डकुण्डलादि, तथा च समवायः, तस्मादनेक इति । न च सत्त्वादिनाऽनेकान्तः, तस्यानेकस्वभावत्वप्रसोधनात् । तन्न विशेषणभावेनाप्यसौ सम्बद्धः ।
नाप्यऽद्दष्टेन; अस्य सम्बन्धरूपत्वासम्भवात् । सम्बन्धो हि २० द्विष्टो भवताभ्युपगतः, अदृष्टश्चात्मवृत्तितया समवायसमवायिनोरतिष्ठन् कथं द्विष्टो भवेत् ? षोढा सम्बन्धवादित्वव्याघातश्च । यदि चाऽदृष्टेन समवायः सम्बध्यते तर्हि गुणगुण्यादयोप्यत एव सम्बद्धा भविष्यन्तीत्यलं समवायादिकल्पनया । न चादृष्टोप्यसम्बद्धः समवायसम्बन्धहेतुः अतिप्रसङ्गात् । सम्बद्धश्चेत्; २५ कुतोस्य सम्बन्धः ? समवायाच्चेत्; अन्योन्यसंश्रयः । अन्यतश्चेत्; अभ्युपगमव्याघातः । तन्न सम्बद्धः समवायः ।
नाप्यसम्बद्धः ' षण्णामाश्रितत्वम्' इति विरोधानुषङ्गात् । कथं चासम्बद्धस्य सम्बन्धरूपतार्थान्तरवत् ? सम्बन्धबुद्धिहेतुत्वाच्चेत्; महेश्वरादेरपि तत्प्रसङ्गः । कथं चासम्बद्धो सौ सम - ३०
१ समवायस्य । २ समवायिभ्यः 1 ३ विशेषा नित्यद्रव्यवृत्तय इति वचनात् । ४ विशेषणभावस्य । ५ पूर्वम् । ६ समवायसिद्धौ हि समवायेनादृष्टस्य सम्बन्धत्वं सिध्यति तत्सिद्धौ चाऽदृष्टस्य सम्बद्धस्य समवायहेतुत्वं सिध्यति ।
७ समवायः स्वत
एव सम्बद्ध इत्यभ्युपगमः । ८ मतस्य ।