________________
गुणपदार्थविचारः
सू० ४।१० ]
विभक्तत्वादनेकपदार्थसन्निधानांयत्तोदयत्वाद्वा देवदन्तयज्ञदत्त गृहविभागबुद्धिवद् हिमवद्विन्ध्यविभागवुद्धिवद्धा ।
सत्यपि वा संयोगे विभागस्य तद्भावलक्षणत्वान्न गुणरूपता । कथमन्यथा पुत्र विरनिवृत्तेपि संयोगे विभक्तप्रत्ययः स्यात् ? न खलु तत्र विभागः संभवति, अस्य कियत्कालस्थाचिगुणत्वेना-५ भ्युपगमात्। कथं वा हिमवद्विन्ध्यादी संयोगेऽनुत्पन्नपि विभक्तप्रत्ययः स्यात् संयोगाभावात् ? व्यतिरिकेविभागस्वरुपत्य कचिदप्यनुपलम्भानोपचारकल्पनापि साध्वी ।
५९५
विभागाभावे कुतः संयोग निवृत्तिरिति चेत् ? 'कर्मण एव' इति ब्रूमः । 'कर्ममात्रादपि तन्निवृत्तिः स्यात्' इत्यप्यदोषः : १० संयोगमात्रनिवृत्तेरिटत्वात् । संयोगविशेपनिवृत्तिस्तु कैर्मविशेषात्, त्वमेते ततो विभागविशेषोत्पत्तिवत् । कर्मणः संयोगोत्पादकत्वात्कथं तन्निवर्तकत्वमिति चेत् ? तर्हि हस्तवाणादिसंयोगस्य कैर्मोत्पादकत्वोपलम्भात् कथं वृक्षादौ वाणादिसंयो गस्य तन्निर्वैर्तकत्वं स्यात् ? अन्यस्य तन्निवर्तकत्वमन्यत्रापि समानम् । न खलु येनैव कर्मणा यः संयोगो जनितः स तेनैव निवर्त्यते इति ।
१५
ऍतेन विभागजविभागोपि चिन्तितः । तस्यापि संयोगाभावरूपस्य क्रियात एवोत्पत्तिप्रसिद्धेः । ननु यदि विभागजविभागो न स्यात्तर्हि हस्तकुड्यसंयोगविनाशेपि शरीरकुड्यसंयोगविनाशो न२० प्राप्नोति; तन्न; हस्तकुख्यसंयोगव्यतिरेकेण शरीरकुड्यसंयोगस्यैवासंभवात् । हस्तकुड्यसंयोगादेवासौ कल्प्यते इति चेत्; तर्हि हस्तकर्मदर्शनाच्छरीरेपि कर्म कस्मान्न कल्प्यते तुल्याक्षेपसमाधानत्वात् ?
१ अनेकपदार्थै: सह सन्निकर्ष इन्द्रियाणाम्, तस्यायत उदयो यस्या इति वाक्यम् । २ विभागस्य । ३ यतो यत्र संयोगपूर्वको विभक्तप्रत्ययस्तत्रैव विभागव्यवहारो युज्यते, न चानयोः प्राकू संयोगः पश्चाद्विभाग इति । रिक्तस्य=वस्तुनः सकाशाद्भिन्नरूपस्य । ५ क्वन्विन्मुख्यत्वेनाप्रसिद्धस्योपचाराभावात्, सति संभवेन्यत्र निमित्तप्रयोजनवशादुपचारः प्रकल्प्यते यतः । ६ क्रियातः ।
४ व्यति
७ T: 1 ८ कस्माच्चिदेव कर्मण इत्यर्थः । ९ तस्य = संयोगस्य । १० जैनानाम् । ११ यथा द्रव्यारम्भक ( परमाणु ) संयोगविशेष निवृत्तिर्भिद्यमान वंशाद्यवयविद्रव्यस्यावयवक्रियात इति संबन्धः । १२ तव वैशेषिकस्य । १३ अत्र देशा देशान्तरप्राप्तिलक्षणमेव कर्म गृह्यते । १४ वृक्षादौ संयुज्य बाणादिः पुनर्न ततोप्रदेशं यातीत्यर्थः । १५ संयोगनिवृत्तेः कर्मजत्वप्रतिपादनेन ।