SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ सू० ४।१० गुणपदार्थवादः ५८७ म्बन्धो हि समवायलक्षणो भवताभ्युपगम्यते, न चासौ प्रमाणतः प्रसिद्ध इति । विशेषणासिद्धत्वं च द्रव्यत्वसामान्यस्य यथाभ्युपगंतखभावस्यासम्भवात् । तन्न परपरिकल्पितो द्रव्यपदार्थो घटते। नापि गुणपदार्थः। स हि चतुर्विशतिप्रकारः परैरिटः। तथाहि"रूपरसगन्धस्पर्शाः संख्या परिमाणानि पृथकत्वं संयोगविभागौ ५ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छापी प्रयत्नश्च तु गुणाः" [ वैशे० सू० शश६] इति सूत्रसङ्ग्रहीताः सप्तदश, चशब्दसमु. चिताः गुरुत्वद्वत्वस्नेहसंस्कारधर्माधर्मशब्दाश्च सप्तेति । तत्र रूपं चक्षुर्लाह्य पृथिव्युदकज्वलनवृत्ति । रसो रसनेन्द्रियग्राहाः पृथिव्युदकवृत्तिः। गन्धो ब्राणग्राह्यः पृथिवीवृत्तिः । स्पर्शस्त्व-१० गिन्द्रियग्राह्यः पृथिव्युदकज्वलनपवनवृत्तिः। संख्या त्वेकादिव्यवहारहेतुरेकत्वादिलक्षणा, एकद्रव्या चानेकद्रव्या च । तत्रैकसंख्या एकद्रव्या । अनेकद्रव्या तु द्वित्वादि. संख्या । सा च प्रत्यक्षत एव सिद्धा, विशेषवुद्धश्च निमित्तान्तरापेक्षत्वादनुमानतोपि। परिमाणव्यवहारकारणं परिमाणम् , महदणु दीर्घ हसमिति चतुर्विधम् । तत्र महद्विविधं नित्यमनित्यं च । नित्यमाकाशकाल. दिगात्मसु परममहत्त्वम् । अनित्यं व्यणुकादिद्रव्येषु । अण्वपि नित्यानित्यभेदाद्विविधम् । परमाणुमनस्सु पारिमाण्डल्यलक्षणं नित्यम् । अनित्यं व्यणुके एव । वंदरामलकबिल्वादिषु तु मह-२० त्खपि तत्प्रकर्षाभावमपेक्ष्य भाक्तोऽणुव्यवहारः।। ननु महद्दीर्घत्वयोरूयणुकादिषु प्रवर्त्तमानयोधणुके चाणुत्वहस्वत्वयोः को विशेषः ? 'महत्सु दीर्घमानीयतां दीर्धेषु महदानीयताम्' इति व्यवहारभेदप्रतीतेरस्त्यनयोः परस्परतो भेदः। अणुत्वहखत्वयोस्तु विशेषो योगिनां तद्दर्शिनां प्रत्यक्ष एव । महदादि २५ १ वैशेषिकेण। २ नित्यनिरंशत्वेन। ३ च इति कपुस्तके नास्ति । ख, ग, पुस्तकेभ्यः संयोजितः । ४ एव । ५ विशेषः भेदः। ६ एकादिप्रत्यया विशेषण) ग्रहणापेक्षा विशिष्टप्रत्ययत्वाद्दण्डीत्यादिप्रत्ययवदिति । ७ तत्रैकत्वसंख्या नित्यद्रव्येषु नित्या कार्यद्रव्येष्वनित्या। द्वित्वादिसंख्या तु परार्द्धान्ता अपेक्षाबुद्धिजन्या सर्वत्रानित्या । ८ वर्तुलाकारमित्यर्थः। ९ नन्वणु द्वयणुके एव यदि वर्त्तते तर्हि बदरामलकादिष्वणुपरिमाणव्यवहारः कथमित्याशङ्कायामाह। १० तस्य-अतिशयस्य । ११ उपचरितः । १२ परिमाणयोः। १३ वस्तुषु। १४ वस्तु । १५ महदादिपरिमाणस्य रूपादिभ्योऽभेदो भविष्यतीत्युक्ते सत्याह ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy