SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ५७४ प्रमेयकमलमार्तण्डे [४. विषयपरि० एकद्रव्यत्वे सति क्रियाहेतुगुणत्वात्प्रयत्नवत् । न चास्य क्रियाहेतुत्वमालिद्धम् ; तथाहि-अग्नेसर्वज्वलनं वायोस्तिर्यपवनमणुमनसोश्चाद्य कस देवदत्तविशेषगुणकारितं कार्यत्वे सति तदुपकारकत्वात् पाण्यादिपरिस्पन्दवत् । नाप्येकद्रव्यत्वाम् ; तथाहि५एकद्रव्यमष्टं विशेषगुणत्वाच्छन्दवत् । “एकद्रव्यगुणत्वात्' इत्युच्यामाने रूपादिमिळभिंचारः, तनिवृत्यर्थ 'क्रियाहेतुगुणत्वात्' इति विशेषणम् । 'क्रियाहेतुगुणत्वात्' इत्युच्यमाने हस्तमुसलसंयोगेन स्वाश्रयासंयुक्तस्तम्भादिक्रियाहेतुनानेकान्तः, तन्निवृत्य र्थम् “एकद्रव्यत्वे सति' इति । 'एकद्रव्यत्वे सति क्रियाहेतुत्वात् १० इत्युच्यमाने स्वाथयासंयुक्तलोहादिक्रियाहेतुनाऽयस्कान्तेनीनेकान्तः, तत्परिहारार्थ गुणत्वात्' इत्युक्तम् ।' तदेतदप्याविचारितरमणीयम्; अदृष्टस्य गुणत्वप्रतिषेधात् , . अतो विशेष्यासिद्धो हेतुः । विशेषणासिद्धश्च; एकद्रव्यत्वाप्रसिद्धेः । तद्धि किसेकलिन्द्रव्ये संयुक्लत्वात् , लमवायेन वर्तमा१५ नात्, अन्यतो वा स्यात् ? न तावत्संयुक्तस्यात् संयोजत्व गुणत्वेन द्रव्याश्रयत्वात् , अदृष्टस्य चाद्व्यत्वात् । अन्यथा गुणवत्वेनास्य द्रव्यत्वानुषङ्गात् 'क्रियाहेतुगुणत्वात्' इत्येतद्विघटते । समवायेन वतनं च समवाये सिद्धे सिद्धयेत्, स चासिद्धः, अग्रे निषेधात् । तृतीयपक्षस्त्वनभ्युपगमादेव न युक्तः। २० क्रियाहेतुत्वं चास्याऽनुपपन्नम्। तथा हि-देवदत्तशरीरसंयुक्तात्मप्रदेशे वर्तमानमदृष्टं द्वीपान्तरवर्तिपु माविमुक्ताफलप्रवालादिषु देवदत्तं प्रत्युपसर्पणवत्सु क्रियाहेतुः, उत द्वीपान्तरवर्तिद्रव्यसंयुक्तात्मप्रदेशे, किं वा सर्वत्र ? तत्राद्यपक्षस्थानभ्युपगम एव श्रयान् , अतिव्यवहितत्वेन द्वीपान्तरवर्तिद्रव्यैस्तस्यानभिसम्वन्धेन २५ तत्र क्रियाहेतुत्वायोगात् । ननु स्वाश्रयसंयोगसम्बन्धसम्भवात्तेपामनभिसम्बन्धोऽसिद्धः, अमुमेव ह्यात्मानमाश्रित्यादृष्टं वर्चते, तेन संयुक्तानि सर्वाण्यप्याकृष्यमाणद्रव्याणि; इत्यप्ययुक्तम् । तस्य १ एकद्रव्यमात्मा, यसः। २ यसः । ३ आत्ममनसोः सर्वथा भेदात् । ४ अणुमनसोः शरीरोत्पत्तिदेशं प्रति गमनक्रिया। ५ असिद्धमिति संबन्धः। ६ पुद्गललक्षणैकद्रव्यं रूपं यतः। ७ क्रिया हननलक्षणा । ८ हस्तमुसलद्रव्यद्वयसद्भावात् । उलूखले धान्यादिके खण्ड्यमाने सति दूरतोऽसंयुक्तस्तम्भादिः पततीति भावः। ९ स्वाश्रयो भूम्यादिः। १० क्रिया आकर्षणम् । ११ भूम्यादौ स्थितोऽयस्कान्त ऊर्ध्वस्थितमसंयुक्तं लोहादिकमाकर्षतीति भावः। १२ परस्य तव। १३ तस्यादृष्टस्थाश्रय आत्मा तेन संयोगः। १४ अदृष्टस्य । १५ द्रव्याणाम्। १६ अदृष्टेन सह । १७ कथम् ? तथा हि ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy