________________
सू० ४।१०] आकाशद्रव्यविचारः तन्ते गुणत्वात्' इत्यस्य व्यभिचारः। ततः कार्यद्रव्यान्तरोत्पत्तिस्तनाभ्युपगन्तव्येत्यसिद्धो हेतुः ।
अकारणगुणपूर्वकत्वं चासिद्धम् ; तथा हि-नाकारणगुणपूर्वकः शब्दोऽस्मदादिवाह्येन्द्रियग्राह्यत्वे सति गुणत्वात्पटरूपादिवत् । न चाणुरूपादिना सुखादिना वा हेतोयंभिचारः; 'बाहोन्द्रियग्राह्यत्वे ५ सति' इति विशेषणात् । नापि योगिवाह्येन्द्रियनाोणाणुरूपादिना; अस्सदादिग्रहणाद् । नापि सामान्यादिना; गुणग्रहणात् ।
अयावद्रव्यभावित्वं च विरुद्धम् ; साध्यविपरीतार्थप्रसाधनत्वात् । तथाहि-स्पर्शवद्रव्यगुणः शब्दोऽस्मदादिवाह्यन्द्रियप्रत्यक्षत्वे सत्ययावद्रव्यभावित्वात्पटरूपादिवत् । 'अस्मदादिपुरुपान्तर-१० प्रत्यक्षत्वे सति पुरुषान्तराप्रत्यक्षत्वात्' इति वाखाद्यमानेन रसा. दिनानैकान्तिकः। 'आश्रयाऽर्यादेरन्यत्रोपलब्धेः' इति चासङ्गतम् ; मेर्यादेः शब्दाश्रयत्वासिद्धेस्तस्य तन्निमित्तकारणत्वात् । आत्मादिगुणत्वा(त्व)प्रतिषेधस्तु सिद्धसाधनान समाधानमर्हति । __ यच्च 'शब्दलिङ्गाविशेपात्' इत्याद्युक्तम् । तद्वन्ध्यासुतसौभाग्य-१५ व्यावर्णनप्रैख्यम् । कार्यद्रव्यस्य व्यापित्वादिधर्मासम्भवात् ।
एतेनेदमपि निरस्तम्-'दिवि भुव्यऽन्तरिक्षे च शब्दाः श्रूयमाणेनैकार्थसमायिनः शब्दत्वात् श्रूयमाणाद्यशब्दवत् । श्रूयमाणः शब्दः समानजातीयासमवायिकारणः सामान्यविशेषेवत्त्वे सति नियमेनास्मैदादिवाखैकेन्द्रियप्रत्यक्षत्वात् कार्यद्रव्यरूपादिवत् २०
१ शब्दस्य गुणरूपस्य कचिद्वर्तनाभावात् । २ कार्यद्रव्यान्तरात्परमाणुरूपाच्छब्दजनकात्। ३ अकारणं गगनम् , तस्य गुणो महत्त्वादिः। ४ किंतु स्पर्शरसगन्धवर्णवपुद्गलद्रव्यहेतुक इति भावः। ५ पटगतरूपगुणो यथा तन्तुगतरूपगुणपूर्वकः । ६ प्रसङ्गसाधनमेतत् । ७ आत्मनः स्वभावत्वात् । ८ वीचीतरङ्गन्यायेन शब्दाच्छब्दोत्पत्तेनिषिद्धत्वात् । ९ प्रसङ्गसाधनमेतत् । १० विशेषगुणो न भवतीति साध्याभावात् । ११ शब्दस्यान्तर्जल्परूपस्य। १२ आदिना मनोदिक्काला गृह्यन्ते। १३ भेदाभावादेकमित्यर्थः। १४ सदृशम्। १५ शब्दस्य आकाशविशेषगुणत्वनिराकरणेन कार्यद्रव्यविशेषगुणत्वसाधनेन वा । १६ शब्देन । १७ एकार्थः आकाशलक्षणार्थः। १८ गगनसमवायिकारणकाः। १९ वीचीतरङ्गन्यायागतेन श्रूयमाणेन घटशब्देन आय घटशब्दाः भूयमाणा घटशब्दस्यासमवायिकारणत्वेनाभिमता एकार्थसमवायिनो यथा । २० सामान्यादिना व्यभिचारपरिहारार्थम् । २१ न चाकाशेन व्यभिचार इन्द्रियग्रहणात्, नापि घटादिना एकपदोपादानात, नापि सुखादिना बाह्यपदोपादानात् , नापि योगिबाझैकेन्द्रियप्रत्यक्षेण परमाणुना तद्रूपादिना वाऽस्मदादिपदग्रहणात्, नापि पिशाचादिना नियमेनेति पदोपानात् । २२ पटसमवेतरूपाद्यारम्भे पटोत्पादकतन्तुरूपादिवत्।