________________
सू० ४.१०] आकाशद्रव्यविचारः ५५७ कादाचित्कत्वम् । न चास्मदादिप्रत्यक्षत्वमक्षणिकत्वविरुद्धम् । अक्षणिकेप्वपि सामान्यादिपु भावात् । ततो यथास्मदादिप्रत्यक्षा अपि केचित्प्रदीपादयो भावाः क्षणिकाः सामान्यादयस्त्वक्षणिकास्तथास्मदादिप्रत्यक्षा अपि विभुद्रव्यविशेषगुणाः 'केचित्क्षणिकाः केचिदक्षणिका भविष्यन्ति' इति सन्दिग्धो व्यतिरेकः।५ अशाक्षणिके हाँचिदमदादिप्रत्यक्षदविशेषणविशिष्टस्य विभुद्रव्यविशेषगुणत्वस्यादर्शनात्ततो व्यावृत्तिलिद्धिः न भवदीयादर्शनस्य साकल्येन भावाभावाप्रसाधकत्वात्, अन्यथा परलोकादेरप्यभावानुषङ्गः । सर्वस्यादर्शनं चासिद्धम्। संतोऽपि निश्चेतुमशक्यत्वात् । विपक्षेऽदर्शनमौत्राद्व्यावृत्तिसिद्धौ
"यद्वेदाध्ययनं किञ्चित्तदध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा ॥"
[मी० श्लो० पृ० ९४९] इत्यस्यापि गमकत्वप्रसँङ्गः। न खलु वेदाध्ययनमतध्ययन-१५ पूर्वकं दृष्टम् । तथा चास्यानादित्वसिद्धेरीश्वरपूर्वकत्वेन प्रामाण्यं न स्यात् । न च कृतकत्वादावप्ययं दोषः समानः; तत्र विपक्षे हेतोः सद्भाववाधकप्रमाणसम्भवात् ।
धर्मादेश्वास्सदाद्यप्रत्यक्षत्वे 'देवदत्तं प्रत्युपसर्पन्तः पश्चादयो देवदत्तगुणाकृष्टास्तं प्रत्युपसर्पणवत्त्वाद्वस्त्रादिवत्' इत्यनुमानं न २० स्यात् ; व्याप्तरग्रहणात् । मानसप्रत्यक्षेण व्याप्तिग्रहणे सिद्धं धर्मा. देरमदादिप्रत्यक्षैत्वम् । अथ 'बाह्येन्द्रियेणास्मदादिप्रत्यक्षेत्वे सति'
१ हेतुं निवर्तयति । २ अस्मदादिप्रत्यक्षत्वविशेषणस्य । ३ पदार्थाः। ४ सुखादयः । ५ धर्मादयः । ६ हेतोर्विपक्षायावृत्तिः । ७ धर्मादौ । ८ आदिना परमाण्वादेश्व । १ भवदीयादर्शनस्य परलोकादो सद्भावाविशेषात् , तथा च चार्वाकमतप्रसङ्गः। १० नरस्य । ११ सर्वेषां हेतोविपक्षेऽदर्शनं विद्यते तथापि तस्य। १२ सर्वेषां प्राणिनां ग्रहणाभावात्, अन्यथाऽशेषज्ञत्वप्रसङ्गः। १३ अक्षणिके। १४ अदर्शनसामान्यात् । १५ विपक्षात् । १६ अपौरुषेयत्वलक्षणसाध्यस्य । १७ अवेदाध्ययनपूर्वके लोकवचने विपक्षे हेतोरदर्शनमात्राद्धेतोर्विपक्षाद्वयावृत्तिसिद्धेः सद्भावात् । १८ ईश्वरकर्तृकत्वेन । १९ भवन्मते । २० हेतौ। २१ नित्ये गगनादौ, यत्कृतकं न भवति तदनित्यं न भवति यथा गगनमिति । २२ यद्यत्तं प्रत्युपसर्पणवत्तत्तद्देवदत्तगुणाकृष्टमिति प्रत्यक्षेण धर्मादेरप्रत्यक्षत्वात् । २३ ततश्च धर्मादिना व्यभिचारः पूर्ववदवस्थ एव । २४ इति विशेषणेन ।