________________
सू० ४।१०] आकाशद्रव्यविचारः
५५४९ यश्चैयामाश्रयस्तत्पारिशेप्यादाकाशम् ; तथाहि-न तावदर्शवतां परमाणूनां विशेषगुणः शब्दोऽसदोदिप्रत्यक्षत्वात्कार्यद्रव्यरूपादिवत् । नापि कार्यद्रव्याणां पृथिव्यादीनां विशेषगुणोसौ; कार्यद्रव्यान्तराप्रादुभीवेप्युपजायमानत्वात्मुखादिवत् , अकारणगुणपूर्वकत्वादिच्छादिवत् , अयावद्रव्यमावित्वात् , अस्सदादिपुरु-५ पान्तरप्रत्यक्षत्वे सति पुरुषांन्तराप्रत्यक्षत्वाच तद्वत् , आश्रया. द्धेर्यादेरन्यत्रोपलव्धेश्च । स्पर्शवतां हि पृथिव्यादीनां यथोक्तविपरीता गुणाः प्रतीयन्ते । नाप्यात्मविशेषगुणः, अहङ्कारेण विभक्तग्रहणात्, वाह्येन्द्रियप्रत्यक्षत्वात् , आत्मान्तरग्राह्यत्वाच्छ । बुधादीनां चात्मगुणानां तद्वैपरीत्योपलब्धेः। नापि मनोगुणः अस्मदा-१० दिप्रत्यक्षत्वाद्रूपादिवत् । नापि दिकालविशेषगुणः; तयोः पूर्वापरादिप्रत्ययहेतुत्वात् । अतः पारिशेष्याद्गुणो भूत्वाकाशस्यैव लिङ्गम् ।
तच्च शब्द लिङ्गाविशेषाद्विशेपलिङ्गाभावाच्चैकम् । विभु च सर्वत्रोपलभ्यमानगुणत्वात्, नित्यत्वे सत्यस्मदाधुंपलभ्यमानगुणोंधिष्ठानत्वाच्चात्मादिवत् । नित्यं शब्दाधिकरणं द्रव्यं सामान्य-१५ विशेषेवत्त्वे सत्यनाधितत्वादात्मादिवत् । अनाश्रितं शब्दाधिकरणं द्रव्यं गुणवत्त्वे सत्यस्पर्शवत्वात्तद्वत् । असमवायवत्वे सदानाश्रितत्वाचास्य द्रव्यत्वमिति ।
१ पृथिव्यादिचतुर्णाम् । २ योगिप्रत्यक्षेण व्यभिचारपरिहारार्धम् । ३ तेषामतीन्द्रियत्वात्तद्गुणोप्यतीन्द्रिय एवेति भावः । ४ कार्य-द्वयणुकादि । ५ कारणस्य गगनस्य गुणः कारणगुणः न विद्यते कारणगुणः पूर्व यस्य शब्दस्यासावकारणगुणपूर्वकस्तस्य भावस्तस्मात्, पृथिव्यादिविशेषगुणे परमाणुरूनस्य कारणस्य गुणपूर्वकत्वमस्तीति । ६ दृष्टान्तपक्षे आत्मा कारणम् । ७ गगने सर्वत्र न विद्यते यतः। ८ इच्छादिवदेव । ९ योतिशयेन दूरान्तरितः। १० सर्वत्र सन्दिग्धानकान्तिकत्वे सत्याह। ११ कार्यद्रव्यान्तरप्रादुर्भावे समुपजायमानलक्षणाः। १२ अहं सुख्यहं दुःखीत्यादिवदहंशब्दवान् इत्यहंकारेण विभक्तस्य रहितस्य शब्दस्य ग्रहणात् । १३ सन्दिग्धानकान्तिकत्वे सत्याह । १४ हेतोरसिद्धत्वपरिहारार्थमिदम् । १५ दिगाकाशकालादि सर्वगतं परमते शब्दस्य दिकालविशेषगुणत्वे शब्द एव तयोस्सद्भावे लिङ्गं स्यादिति भावः। १६ अविशेषः एकत्वम् । १७ पटेन व्यभिचारपरिहारार्थम् । १८ परमाणुभिर्व्यभिचारपरिहारार्थम् । १९ स गुणः शब्दः । २० नित्यत्वमसिद्धमित्युक्ते सत्याह। २१ अभावेन वा व्यभिचारपरिहारार्थम् । २२ घटेन व्यभिचारपरिहारार्थम् । २३ असिद्धत्वे सत्याह । २४ गुणेन व्यभिचारपरिहारार्थ गुणवत्स्वमिति विशेषणं गुणानां निर्गुणत्वात् । २५ समवायेनाभावेन वा व्यभिचारपरिहारार्थम् ।