SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ ४९८ प्रमेयकमलमार्तण्डे ४. विषयपरि० रसाद्रूपानुमान न स्यात् । 'तथा दृष्टत्वान्न दोषः' इत्यन्यत्रापि समानम् , विधुच्छन्दादेरपि विधुच्छन्दाद्यन्तरोपलम्मात् । • न बैकत्र सत्त्वक्षणिकत्वयोः सहभावोपलम्भात्सर्वत्र ततस्तदनुमान युक्तम् ; अन्यथा सुवर्णे सत्त्वादेव शुक्लतानुमितिप्रसङ्गः, ५ शुक्ले शङ्ख शुक्लतया तत्सहभावोपलम्भात् । अथ सुवर्णाकारनिर्भासिप्रत्यक्षेण शुक्लतानुमानस्य वाधितत्वान्न तत्र शुक्लता. सिद्धिः; तर्हि घटादौ क्षणिकतानुमानस्य स एवायम्' इत्येकत्वप्रतिभासेन वाधितत्वात्प्रतिक्षणविनाशितासिद्धिर्न स्यात्। : अथैकत्वप्रत्यभिज्ञा भिन्नेष्वपि लूनपुनर्जातनखकेशादिष्वभेद१० मुल्लिखन्ती प्रतीयत इत्येकत्वे नाऽसौ प्रमाणम् । नन्वेवं काम लोपहताक्षाणां धवलिमामाविभ्राणेष्वपि पदार्थेषु पीताकारनिर्भालिप्रत्यक्षमुदेतीति सत्यपीताकारपि न तत्प्रमाणम् । भ्रान्ता भ्रान्तस्य विशेषोन्यत्रापि समानः । प्रसाधितं च प्रत्यभिज्ञानस्याभ्रान्तत्वं प्रौगित्यलमतिप्रसङ्गेन । १५ अथ विपंक्षे बांधकप्रमाणवलात्सत्त्वक्षणिकत्वयोरविनाभावोवगम्यते । ननु तत्र सत्त्वस्य बाधकं प्रत्यक्षम् , अनुमानं वा स्यात् ? न तावत्प्रत्यक्षम्। तत्र क्षणिकत्वस्याप्रतिभासनात् । न चाप्रतिभासमानक्षणक्षयवरूपं प्रत्यक्षं विपक्षाव्यावर्त्य सत्त्वं क्षणिकत्वनियतमादर्शयितुं समर्थम् । अथानुमानेन तत्ततो व्यावर्त्य क्षणि२० कनियततया साध्येत; ननु तदनुमानेप्यविनाभावस्यानुमान वलात्प्रसिद्धिः, तथा चानवस्था । न च तद्वाधकमनुमानमस्ति । : ननु 'यत्र क्रमयोगपद्याभ्यामर्थक्रियाविरोधो न तत्सत् यथा गगनाम्भोरुहम्, अस्ति च नित्ये सः' इत्यतोनुमानात्ततो व्या. वर्तमानं सत्त्वमनित्ये एवावतिष्ठत इत्यवसीयते; तन्न; सत्त्वाऽ. २५क्षणिकत्वयोर्विरोधाऽसिद्धेः। विरोधो हि सहानवस्थानलक्षणः, परस्परपरिहारस्थितिलक्षणो वा स्यात् ? न तावदाद्यः; स हि पदार्थस्य पूर्वमुपलम्मे पश्चात्पदार्थान्तरसद्भावाभावावगतौं निश्चीयते शीतोणवत् । न च नित्यत्वस्योपलम्भोस्ति सत्त्वप्रस ङ्गात् । नापि द्वितीयो विरोधस्तयोः सम्भवति; नित्यत्वपरि३० हारेण सत्त्वस्य तत्परिहारेण वा नित्यत्वस्यानवस्थानात् । १ अस्त्यत्र मातुलिङ्गे रूपं रसादिति । २ उपादानकारणाद्रूपात् सजातीयरूपकरण प्रकारेण । ३ तृतीयपरिच्छेदे। ४ प्रत्यभिज्ञानस्याभ्रान्तत्वसमर्थनेन । ५ अक्षणिकले। ६ सत्त्वस्य। ७ बसः। ८ सत्त्वं क्षणिकत्वनियतं तदन्वयव्यतिरेकानुविधानादिति । ९ नित्यं सन्न भवति क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । १० तमःप्रकाशयोरिव वा।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy