SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ४४४ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० नापि जातौ तस्याःक्षणिकत्व स्वलक्षणस्येवान्वयाभावान्न सङ्केतः फैलवान् । अक्षेणिकत्वे तु क्रमेण ज्ञानोत्पादकत्वाभावः। नित्यैकखभावस्य परापक्षाप्यलम्भाव्या ! प्रतिषिद्धा चेयं यथास्थानम इत्यलमतिमलङ्गेले । ५ नापि तद्योगे सङ्केतः; तस्यापि समवायादिलक्षणस्य निराकृतत्वाद् । जातितद्योगयोश्चासम्भवे तद्वतोप्यर्थस्यासम्भवाकथं तत्रापि सङ्केतः? बुद्ध्यांकारे वा; स हि वुद्धितादात्म्येन स्थितत्वान्न वुमन्तरं प्रतिपाद्यमर्थ वानुगच्छति । किञ्च, 'इतः शब्दीदर्थक्रियार्थी पुरुषोऽर्थक्रियाक्षमानान्वि१० ज्ञाय प्रवर्तिष्यते' इति मन्यमानैर्व्यवहर्तृभिरभिधायकों नियु ज्यन्ते न व्यसनितया । न चासौ विकल्पवुद्ध्याकोरोऽर्थिनोभिप्रेतं शीतापनोदादिकार्य सम्पादयितुं समर्थः ।। किञ्च, बुद्ध्याकारे शब्दसङ्केताभ्युपगमेऽपोहादिपक्ष एवाभ्युपगतो भवेत्; तथाहि-अपोहादिनापि वुद्ध्याकारो बाह्यरूप. १५ तयाध्यवसितः शब्दार्थोभीष्ट एव, अर्थविक्षां च कार्यतया शैब्दो गमयति यथा धूमोनिमिति । अंत्र प्रतिविधीयते । कृतसमया एव ध्वनयोऽर्थाभिधायकाः। समयश्च सामान्यविशेषात्मकेर्थेऽभिधीयते न जात्यादिमात्र । १ कुतः। २ जातेः। ३ गोत्वादिसामान्ये। ४ भवेत् । ५ अनुस्यूतत्वे । ६ तस्या जातेः । ७ परं-निमित्तम् । ८ जातिः । ९ जातौ सङ्केतनिराकरणप्रसङ्गेन । १० पक्षान्तरम् । ११ तयोः स्खलक्षणजात्योः सम्बन्धे । १२ आदिना संयोगतादात्म्यादेश्च । १३ शब्देन । १४ अर्थस्य । १५ नान्वेति । १६ अतः केन सार्क सङ्केतः स्यात्। १७ विवक्षितत्वात्। १८ जैनमताभिप्रायं वक्ति सौगतः। १९ अर्थ:प्रयोजनम् । २० शब्दाः। २१ कार्य विना प्रवृत्तिर्व्यसनम् । २२ अर्थस्य । २३ पुरुषस्य । २४ अर्थप्रतिबिम्बरूपे । २५ जैनेन । २६ सौगत। २७ जैनस्य । २८ सौगतेन । २९ शानात्मा बुद्ध्याकार एव बाह्यार्थों नापरः कश्चिदित्यभिप्रायो बौद्धविशेषस्य । ३० आन्तरार्थस्य वक्तुमिच्छां शानस्वभावां शब्दस्य कारणभूताम् । ३१ कार्यरूपः । ३२ शापयति । ३३ शानस्वभावा विवक्षा एव बाह्यार्थः शन्दविषयों नापरः कश्चिदित्यपि बौद्धविशेषाभिप्रायः । अन्यापोहरूपो बुद्ध्याकाररूपो विवक्षारूप एवं त्रिविधः शब्दविषयो बौद्धमते इति ज्ञेयम् । ३४ कार्यम् । ३५ कारणम् । ३६ परकृतपक्षे। ३७ शब्दाः। ३८ वाचकाः। ३९ तादात्म्यस्वरूपै। ४० परार्थे । ४१ क्रियते । ४२ केवलायां जातौ केवले विशेषे वा नाभिधीयते ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy