________________
४२४
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० एतेन 'अन्यत्तात्वादिलंयोगः' इत्यादि निरस्तम्, कथम् ? ध्वन्यन्तरसारिभिस्तालयादिभिर्यद्यपि ध्वन्यन्तराक्षेपो नास्ति तथानिय एक तैराक्षिप्यते तत एव सर्ववर्णश्रुतेर्वन्यन्तराक्षे. पपक्षदोपस्तवस्थः। तन्न शब्दसंस्कारोभिव्यक्तिर्घटते। ५ अथेन्द्रियसंस्कारोसौ । तदुक्तम्
"अथापीन्द्रियसंस्कारः सोप्यधिष्ठानदेशतः । शब्दं न श्रोष्यति श्रोत्रं तेनाऽसंस्कृतशकुलि ॥१॥ अप्राप्तकर्णदेशत्वावनेनं थोत्रसंस्क्रिया। अतोऽधिष्टानभेदेन संस्कारनियमस्थितिः॥२॥"
मी० श्लो० शब्दनि श्लो० ६९-७०] "यद्यपि व्यापि चैकं च तथापि ध्वनिसंस्कृतिः। अधिष्ठानेषु सा यस्य तच्छब्दं प्रतिपत्स्यते ॥ १॥"
[मी० श्लो० शब्दनि० श्लो० ६८] इति । अत्रापि सकृत्संस्कृतं श्रोत्रं युगपत्सर्ववर्णान् शृणुयात् । १५न ह्यानादिना संस्कृतं चक्षुः सन्निहितं नीलधवलादिकं कश्चित्पश्यति कञ्चिन्नेति । वलातैलादिना संस्कृतं श्रोत्रं वा कांश्चिदेव गकारादीन् शृणोति कांश्चिन्नेतीति नियमो दृष्टो येनानापि तथा कल्पना स्यात् । ततो निराकृतमेतत्
"तथा(यथा)घटादेर्दीपादिरभिव्यञ्जक इप्यते । चक्षुषोऽनुग्रहादेवं ध्वनिः स्याच्छोत्रसंस्कृतेः ॥१॥ न चा(च)पर्यनुयोगोत्र केनाकारेण संस्कृतिः। उत्पत्तावपि तुल्यत्वाच्छक्तिस्तत्राप्यतीन्द्रिया ॥२॥"
[मी० श्लो० शब्दनि० श्लो० ४२-४३] इति । २५ प्रदीपादिनानुगृहीतचक्षुषा पटाद्यनेकार्थग्रहणवत् ध्वन्यनु
गृहीतश्रोत्रेणाप्येकदानेकशब्दश्रवणप्रसङ्गात् । प्रयोगः-श्रोत्र. मेकेन्द्रियग्राह्याभिन्नदेशावस्थितार्थग्रहणाय प्रतिनियतसंस्कारकसंस्कार्य न भवति इन्द्रियत्वाञ्चक्षुर्वत्। तन्न श्रोत्रसंस्कारोप्यभिव्यक्तिर्घटते। ३० अस्तु त भयसंस्कारः। न चात्रोक्तदोषानुषङ्गः। तदुक्तम्
"द्वयसंस्कारपक्षे तु वृथा दोषद्वये वचः। येनान्यतरवैकल्यात्सर्वैः सर्वो न गृह्यते ॥१॥"
[मी० श्लो० शब्दनि० श्लो० ८६] १ सर्वशब्दश्रवणोत्पादितैलविशेषोयम् ।