________________
४१४
प्रदेयकमलमार्तण्डे [३. परोक्षपरि० तेषामग्रेऽनेकत्यप्रसाधनात् । तथाप्यत्र लगतत्वादिधर्मसम्भवे घटादावधि लोऽस्तु
द चास्याऽवयवाः सन्ति येन वर्त्तत भागशः।
घटो वर्तत इत्येव तत्र सर्वात्मकश्च सः॥' ५ इत्यादेरत्राप्यभिधातुं शक्यत्वात् । यथा च
कचिद्रक्तः क्वचित्पीतः क्वचित्कृष्णश्च गृह्यते । प्रतिदेशं घटस्तेन विभिन्नो मम युक्तिमान् ॥ तथा
उदात्तः कुत्रचिच्छब्दोऽनुदात्तश्च तथा क्वचित् । १० अकारो मि(कारमि)श्रितोऽन्यत्र विभिन्नः स्याद् घटादिवत् ॥
ननु 'व्यञ्जकध्वनिधर्मा एवोदात्तादयो नाऽकारादिधर्माः, ते तु तबारोपात्तद्धर्मा इवावभासन्ते जपाकुसुमरक्ततेव स्फटिकादाविति। उक्तञ्च
"वुद्धितीव्रत्वमन्दत्वे महत्त्वाल्पत्वकल्पना । १५ सा च पट्वी भवत्येव महातेजःप्रकाशिते ॥१॥
मन्दप्रकाशिते मन्दा घटादावपि सर्वदा। एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम् ॥२॥"
[मी० श्लो० शब्दनि० श्लो० २१९-२२०] तदप्यसारम्; यतो यधुदात्तादिधर्मरहितोऽकारादिस्तत्स२० हितश्च ध्वनिः रक्तेतरस्वभावजपाकुसुमस्फटिकवत् कचिदुप
लब्धः स्यात् तदा स्यादेतत् “अन्यधर्मस्तदारोपात्तद्धर्मतयेवावभाति' इति । न चासौ स्वप्नेपि तथोपलभ्यते । शब्दधर्मतया चैते प्रतीयमाना यद्यन्यस्येष्यन्तेऽन्यत्र कः समाश्वासहेतुः? वाधकाभावश्चेत्सोत्रापि समानः। विपरीतदर्शनं हि वाधकम् , २५ यथा द्विचन्द्रदर्शनस्यैकचन्द्रदर्शनम् । न चात्र तदस्ति-उदात्तादिधर्मात्मकस्यैवाकारादेः सर्वदा प्रतीतेः । तथापि तत्कल्पने रक्तादिधर्मरहितस्य घटादेर्दर्शनं तथैव कल्प्यताम् । तथाविधस्थानुपलम्भादसत्त्वम् ; शब्देपि समानम् ।
किञ्चेदं युद्धस्तीव्रत्वं नाम ? किं महत्वरहितस्यार्थस्य महत्त्वेनो३० पलम्भः, यथाऽवस्थितस्याऽत्यन्तस्पष्टतया वा? प्रथमे विकल्पे
भ्रान्तताऽस्याः स्यात् । 'सा च पट्टी भवत्येव महातेजःप्रकाशिते घटादौ सर्वदा' इति च निदर्शनमयुक्तम् ; न हि महातेजःसाम
•दल्पोपि घटो 'महान्' इत्यवभासते, किन्त्वत्यन्तस्पष्टतया । द्वितीयविकल्पे तु महत्त्वादिधर्मरहितस्यास्याऽत्यन्तस्पष्टतया ३५ग्रहणं स्यात् । तथा च न व्यञ्जकध्वनिधर्मानुविधायित्वं स्यात् ।