________________
४१२
प्रमेयकमलमार्तण्डे ३. परोक्षपरि० प्रतिपत्ती सामान्यात्सामान्यप्रतिपत्तौ लामान्यप्रतिपत्तिरेव स्यान्न विशेषप्रतिपत्तिः, साधारणरूपतायाः सामान्यखभावत्वात् ।
किच, यदि नाम शब्दाजातिः प्रतिपन्ना व्यक्तेः किमायातम. येनासौ तांगमयति? तयोः सम्वन्धाच्चेत् ; सम्वन्धस्तयोस्तदा ५प्रतीयते, पूर्व वा? न तावत्तदा व्यक्तेरनधिगतेः "जातिरेव हि केवला तदा प्रतिभासते' इत्यभ्युपगमात्, अन्यथा कि लक्षितलक्षणया? न च व्यक्त्यनधिगमे तत्सम्वन्धाधिगमः, द्विष्ठत्वात्तस्य । अथ पूर्वमसौ प्रतीतः; तथापि तदेवासौ भवतु ।
न ह्येकदा तत्सम्वन्धेऽन्यदाप्यसौ भवत्यतिप्रसङ्गात् । न च जाते. १०विशेषनिष्ठतैव स्वरूपम् ; व्यत्यन्तराले तत्स्वरूपाऽसत्त्वप्रसङ्गात्। तत्कथं व्यत्यऽविनाभावोऽस्याः?
किञ्च, सर्व जाति=क्तिनिष्ठेति प्रत्यक्षेण प्रतीयते, अनुमानेन वा? प्रत्यक्षेण चेत्किं युगपत्, क्रमेण वा? तत्राद्यपक्षोऽ.
युक्तः, सर्वव्यक्तीनां युगपदप्रतिभासनात् । न च तासामप्रति१५भासे तथा सम्वन्धावसायोऽतिप्रसङ्गात् । नापि द्वितीयः, क्रमेण निरवधेः सकलव्यक्तिपरम्परायाः परिच्छेत्तुमशक्तेः । कादाचित्के तु जातेर्व्यक्तिनिष्ठताधिगमे सर्वत्र सर्वदा न तनिष्ठताधिगमः स्यात् । तन्न प्रत्यक्षेण जातेस्तनिष्ठताधिगमः।
नाप्यनुमानेन; अस्याऽध्यक्षपूर्वकत्वेनाभ्युपगमात् । तस्य चात्राऽ. २० प्रवृत्तावनुमानस्याप्यप्रवृत्तिः । तन्न लक्षितलक्षणया विशेषप्रतिपत्तिः सम्भवति, इति वाच्यवाचकयोः सामान्यविशिष्टविशेषरूपतोपगन्तव्या धूमादिवत् ।
ननु धूमादेः सामान्यसद्भावात्तद्विशिष्टस्योक्तन्यायेन गमकत्व. मस्तु, शब्दे तु तस्याभावात्कथं तद्विशिष्टस्य गमकत्वम् ? तद. २५भावश्च वर्णान्तरग्रहणे वर्णान्तरानुसन्धानाभावात् । यत्र हि सामान्यमस्ति तत्रैकग्रहणेऽपरस्यानुसन्धानं दृष्टं यथा शावलेयग्रहणे बाहुलेयस्य । वर्णान्तरे च गादौ गृह्यमाणे न कादीनामनुसन्धानम् । तदसाम्प्रतम् ; गादौ हि वर्णान्तरे गृह्यमाणे यदि 'अयमपि वर्णः' इत्यनुसन्धानाभावः सोऽसिद्धः, तथानुभू(तथाभू).
१ व्यक्तिम् । २ शब्दाज्जातिप्रतिपत्तिकाले। ३ शब्दोच्चारणसमये व्यक्तिरपि प्रतिभासते चेत्तहिं । ४ लक्षितेन शातेन सामान्येन लक्षणा=विशेषप्रतिपत्तिस्तया । ५ संबन्धस्य । ६ घटपटयोरेकदा संवन्धे सर्वदा संबन्धप्रसङ्गात् । ७ संवन्धी नास्ति यतः। ८ कदाचिद्वेत्यप्यत्र द्रष्टव्यम् । ९ पिशाचाप्रतिभासे पिशाचेन कूटस्य संबन्धपत्यक्षप्रसङ्गात् । १० विशेषस्य । ११ अर्थज्ञापकत्वम् । १२ अनुसंधान प्रत्यमिशनम् । १३ व्यक्तिषु । १४ गत्वाभावात् कादिषु। १५ अनुसंधानामावः ।