SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तत्परमभिधीयमानं साध्यधर्मिणि साध्य साधने सन्देहयति ॥ ४२ ॥ कुतोऽन्यथोपनयनिगमने ? ॥ ४३ ॥ परं केवलमभिधीयमानं साध्यसाधने साध्यधर्मिणि सन्देख५यति सन्देहवती करोति । कुतोऽन्यथोपनयनिगमने ? मा भूदृष्टान्तस्यानुमानं प्रत्यङ्गत्वमुपनय निगमनयोस्तु स्यादित्याशङ्कापनोदार्थमाह. न च ते तदङ्गे साध्यधर्मिणि हेतुसाध्ययो वचनादेवाऽसंशयात् ॥ ४४॥ १० न च ते तदङ्गे साध्यधर्मिणि हेतुसाध्ययोर्वचनादेव हेत. साध्यप्रतिपत्तौ संशयाभावात् । तथापि दृष्टान्तोदेरनुमानावयवत्वे हेतुरूपत्वे वा समर्थनं वा वरं हेतुरूपमनुमानावयवो वास्तु साध्ये तदुपयोगात् ॥ ४५ ॥ १५ समर्थनमेव वरं हेतुरूपमनुमानावयवो वास्तु साध्ये तस्यो पयोगात् । समर्थनं हि नाम हेतोरसिद्धत्वादिदोषं निराकृत्य स्वसाध्येनाऽविनाभावसाधनम् । साध्यं प्रति हेतोर्गमकत्वे च तस्यैवोपयोगो नान्यस्येति । ननु व्युत्पन्नप्रज्ञानां साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवा२०संशयादर्थप्रतिपत्तेदृष्टान्तादिवचनमनर्थकमस्तु । बालानां त्वव्यु. त्पन्नप्रज्ञानां व्युत्पत्त्यर्थ तन्नानर्थकमित्याहबालव्युत्पत्त्यर्थं तत्रयोपगमे शास्त्र एवासौ __न वादेऽनुपयोगात् ॥ ४६॥ वालव्युत्पत्त्यर्थ तन्त्रयोपगमे दृष्टान्तोपनय निगमनत्रयाभ्युप १ यदि सन्देहवती न करोति । २ उपनयनिगमनादेश्च । ३ सपक्षे दृष्टान्ते सत्त्वमुपनयश्च हेतुस्वरूपम् । कुतः ? त्रिरूपो हेतुर्यत इति सौगतः। ४ हेतुलक्षणं कीदृशम् ? दृष्टान्तोपनयनिगमनलक्षगविरूपत्वप्रदर्शनस्वरूपम्। ५ हे तुरूपोस्तु । कथम् ? हेतोः समर्थनं हेतुरेवेत्यनेन प्रकारेण। ६ विपक्षे साकल्येन बाधकप्रमाण• प्रदर्शनं हेतुसमर्थनम् । ७ एतदेव ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy