________________
सू० ३.१०] प्रत्यभिज्ञानप्रामाण्यविचारः ३४१ तस्य वर्तमानमात्रपर्यायविषयत्वात् । तदुभयसंस्कारजनितंकल्पनानानं तत्सङ्कलयतीति कल्पने तदेव प्रत्यभिज्ञानं सिद्धम् ।
प्रत्यभिज्ञानानभ्युपगमे च यत्सत्तत्सर्वं क्षणिकम्' इत्याद्यनुमानवैयर्थ्यम् ! तयेकलाप्रतीति निरालार्थम् न पुनःक्षणक्षयप्रसिध्यर्थ तस्याध्यक्षसिद्धत्वेनाभ्युपगमात् । समारोपनिषेधार्थ तत्:५ इत्ययाऐशलम् : सोयमित्येकत्यप्रतीतिमन्तरेण समारोपस्याप्यससवात् । तदभ्युपगमे च 'अयं सः इत्यध्यक्षमरणव्यतिरेकेण नापरमेकत्वज्ञानम्' इत्यस्य विरोधः। न चाध्यक्षसरणे एव समारोपः, तेनानयोर्व्यवच्छेदेऽनुमानस्यानुत्पत्तिरेव स्यात् तत्पूर्वकत्वात्तस्य । कथं चास्याः प्रतिक्षेपेऽभ्यासेतरावस्थायां प्रत्यक्षानुमा-१० नयोः प्रामाण्यप्रसिद्धिः? प्रत्यभिज्ञाया अभावे हि 'यदृष्टं यच्चानुमितं तदेव प्राप्तम्' इत्येकत्वाध्यवसायाभावेनानयोरविसंवादासम्भवात् । तथा च "प्रमाणमविसंवादि ज्ञानम्" [प्रमाणवा० २।१] इति प्रमाणलक्षणप्रणयनमयुक्तम् । अन्यद् दृष्टमनुमितं वा प्राप्त चान्यदित्येकत्वाध्यवसायाभावेप्यविसंबादे प्रामाण्ये चानयोरभ्यु-१५ पगम्यमाने मरीचिकाचके जलज्ञानस्यापि तत्प्रसङ्गः।
न चैवंवादिनो नैरात्म्यभावनाभ्यासो युक्तः फलाभावात् । न चात्मदृष्टिनिवृत्तिः फलम् : तस्या एवासम्भवात् । 'लोहम्' इत्यस्तीति चेत् : न; स्मरणप्रत्यक्षोल्लेखव्यतिरेकेण तदनभ्युपगमात् । तथा च कुतस्तन्निमित्ता रागादयो यतः संसारः स्यात् ? २०
ननु पूर्वापरपर्याययोरेकत्वग्राहिणी प्रत्यभिज्ञा, तस्य चासम्भवात् कथमियमविसंवादिनी यतः प्रमाणं स्यात् ? प्रत्यक्षेण हि तृधद्रूपयोः प्रतीतिः स्वकालनियतार्थविषयत्वात्तस्यः इत्यपि मनोरथमात्रम् ; सर्वथा क्षणिकत्वत्याने निराकरिष्यमाणत्वात् । प्रत्यक्षेणाऽतृकुंद्रूपतयार्थप्रतीतेश्चानुभवात् कथं विसंवादकत्वं तस्याः? २९ ततः प्रमाणं प्रत्यभिज्ञा स्वगृहीतार्थाविसंवादित्वात् प्रत्यक्षादिवत् । नीलाद्यनेकाकाराकान्तं चैकज्ञानमभ्युपगच्छतः स एवायम्' इत्याकारद्वयाक्रान्तैकज्ञाने को विद्वेषः?
१ तदुभयस्य कार्यः संस्कारः सौगताभिप्रायेण वा सता तेन जनितम् । २ प्रथममेव विशरारवः (क्षणक्षयिनः) परमाणवः प्रत्यक्षेण निश्चीयन्ते इति वचनात् । ३ ग्रन्थस्य । ४ किञ्च । ५ अर्थाव्यमिचारित्वमविसंवादः। ६ प्रमाणे अविसंवादि. त्वादिति प्रसिद्धहेतुभूतधर्मेण प्रामाण्यमप्रसिद्धधर्मः साध्यते इति प्रामाण्याविसंवादयोमेंदः। ७ जलम् । ८ अन्यज्जलमित्यर्थः । ९ प्रत्यभिज्ञानाभावादित्येवंवादिनः । १० पश्चादात्मदर्शनाभावः। ११ कुतः। १२ नश्यद्रूपयोः। १३ चतुर्थपरिच्छेदे । १४ अन्वयरूपतया। १५ परस्परतादात्म्येन ।