________________
मू० २।१२] स्त्रीमुक्तिविचारः
३३१ न्तरं स्वशरीरानुरागादिपरिग्रहमनुमापयति । न च शरीरोप्मणा वातकायिकादिजन्तूपघातनिवारणार्थ स्वशरीरानुरागाद्यभावेन्यसावुपादीयते इत्यभिधेयम् : पुंसामाचेलक्यव्रतस्य हिंसात्वानुपङ्गात् । तथा चाहदादयो मुक्तिमाजस्तदुपदेवारो वान स्युः, किन्तु सवस्त्रा एव गृहस्था मुक्तिभाजो भवेयुः । न चारेलक्यं नेप्यते ५
"माचेलकुदेखिय सेजाहररायपिंडक्रिविकन्न" जीतकल्पभा० गा० १९७२] इत्यादेः पुरुष प्रति देशविन्य स्थितिकल्पस्य मध्ये तदुपदेशात् ।
किञ्च, गृहीतेपि वस्त्रे जन्तूपघातस्तदवस्थः, तेनानावृतपाणिपादादिप्रदेशोष्मणा तदुपघातस्य परिहर्जुमशक्तेः । वस्त्रस्य १० यूकालिक्षाद्यनेकजन्तुसम्मूर्छनाधिकरणत्वाच्च । तथाविधस्यापि खीकरणे मूर्द्धजानां लुञ्चनादिक्रिया न स्यात् । वस्त्राकुञ्चनादेर्जातवातेनाकाशप्रदेशावस्थितजन्तूपपीडनाच व्यजनादिवातवत् ।
किञ्च, एवमनेकप्राण्युपघातनिवारणार्थमविहारोप्यनुष्ठेयो वस्त्रग्रहणवद्विशेषात् । प्रयत्नेन गच्छतो जन्तृपघातेप्याहिंसा निश्चे-१५ लेपि समा। यथा च यज्ञानुष्ठानं पशुहिंलाङ्गत्वेनाऽश्रेयस्करल्वात् त्याज्यं तथा वस्त्रग्रहणमप्यविशेषात् ।
एतेन संयमोपकरणाथै तदित्यपि निरस्तम् । किञ्च, बाह्याभ्यन्तरपरिग्रहपरित्यागः संयमः । स च याचनसीवनप्रक्षालनशोषणनिक्षेपादानचौरहरणादिमनःसंक्षोभकारिणि २० वस्त्रे गृहीते कथं स्यात् ? प्रत्युत संयमोपघातकमेव तत् स्याद्वाह्याभ्यन्तरनैर्ग्रन्थ्यप्रतिपन्थित्वात् ।
हीशीतार्तिनिवृत्त्यर्थं वस्त्रादि यदि गृह्यते । कामिन्यादिस्तथा किन्न कामपीडादिशान्तये ?॥१॥ येन येन विना पीडा पुंसां समुपजायते । तत्तत्सर्वमुपादेयं लावादिपलाँदिकम् ॥२॥ १ परेण । २ आचेलक्यौदेशिकशय्याधरराजकीयपिण्डोक्षाकृतिकर्मव्रतरोपणयोग्यत्वं ज्येष्ठता प्रतिक्रमणं मासिकवासिता स्थितिकल्पो योगश्च वार्षिको दशमः। ३ अनुप्रेक्षासंयमस्य । ४ यूकाधनेकजन्तुसम्मूर्छनाधिकरणत्वाविशेषात् एषां निवारणार्थम् । ५ प्रसारणाच्च। ६ व्यञ्जक। ७ जन्तूपघातपरिहारार्थ वस्त्रस्योपादानप्रकारेण । ८ अगमनम् । ९ वस्त्रस्य जन्तृपघातसमर्थनपरेण अन्थेन। १० विशेषतः । ११ विरोधित्वात् । १२ ताम्बूलादिश्च । १३ वस्त्रग्रहणप्रकारेण । १४ गृह्यते। १५ यदि तहीति शेषः । १६ लावकः पक्षिविशेषः । पलं मांसम् । १७ उपादेयम् ।