________________
सू० २।१२] मोक्षस्वरूपविचारः
३२५ धूमश्चाग्ने—माञ्चोत्पद्यमानो यथा प्रतिपन्नस्तथा प्राणादिश्चैतन्यात्तभावाञ्चोत्पद्यमानः स्वात्मनि परत्र चानेने प्रत्येतुं न शक्यते क्वचित्तभावस्य निश्चेतुमशक्यत्वादित्युक्तम् । धृमे च 'किमयं धूमोऽग्नेः, धूमान्तराद्वा' इति सन्देहः प्रवृत्तस्याग्निदशनेतराभ्यों लिवर्त्तते । प्राणादौ तु 'किमयमनन्तरचैतन्य-५ प्रभवः, किं वा भूतभाविजन्मान्तरचैतन्यप्रभवः' इति सन्देहः कुतो निवत्त परचैतन्यस्य द्रष्टमशक्यत्वात् ? ततोस्य न निश्शकं परप्रतिपादनार्थ शास्त्रप्रणयनं युक्तम् । सन्देहात्तु तत्प्रणयनं चार्वाकस्याप्यविरुद्धम् , इत्ययुक्तमुक्तम्-"अन्यधियो गतेः" [ ] इति ।
सुषुप्तादौ चाद्यः प्राणादिः कुतो जायताम् ? जाग्रद्विज्ञानसहकारिणोजाग्रत्प्राणादेरिति चेत् : नः एकस्माजाग्रद्विज्ञानादनन्तरभावीप्राणादिः कालान्तरभावि च प्रबोधज्ञानमिर्त्यस्यासम्भाव्यमानत्वात् । न ह्येकस्मात्सामग्रीविशेषात् क्रमभाविकार्यद्वयसम्भवो नाम, अन्यथा नित्यादप्यक्रमाक्रमवत्कार्योत्पत्तिप्रसङ्गः । १५ तथाच "नाऽक्रमाक्रमिणो भावाः" [प्रमाणवा० श४५] इत्यस्य विरोधः। तस्मात्तत्कालभाविन एव ज्ञानात् प्राणादिप्रभवोऽभ्युपगन्तव्यः । तत्कथं तंत्र ज्ञानाभावसिद्धिः?
स्वापसुखसंवेदनं चात्र सुप्रतीतम्-'सुखमहमस्वापम्' इत्युत्तरकालं तत्प्रतीत्यन्यथानुपपत्तेः। न ह्यननुभूते वस्तुनि स्मरणं प्रत्यभि.२० ज्ञानं चोपपद्यते । न च तदा स्वापसुखनिरूपणाभावात्तत्संवेदनाभावः; तदहर्जातवालकस्य मुखप्रक्षिप्तस्तेन्यजनितमुखसंवेदनेन व्यभिचारात् । न खलु तत्तेन 'इदमित्थम्' इति निरूप्यते । ___ न च दुःखाभावात्सुखशब्दप्रयोगोऽत्र गौणः, अभावस्य प्रति-२, योगिभावान्तरस्वभावतया व्यवस्थितेः इत्यलमतिप्रसङ्गेनें।
यञ्चोक्तम्-अनेकान्तज्ञानस्य वाधकसद्भावेन मिथ्यात्वोपप. त्तेन निःश्रेयससाधकत्वम् । तदप्युक्तिमात्रम्: तज्ज्ञानस्यैवावाधित
१ सौगतेन । २ इतरदश्यदर्शनम् । ३ जाग्रहशायाम् । ४ तथागतस्य । ५ किञ्च । ६ मतस्य । ७ एकस्मात्कार्यद्वयसम्भवश्चेत् । ८ एकरूपात् । ९ वापदशा। १० सुपुप्तावस्थायाम् । ११ किञ्च । १२ सुघुप्तावस्थायान् । १३ सुखसंवेदनं विना। १४ सुषुप्तावस्थायाम् । १५ दुग्ध। १६ दुःखाभावे सुखशब्दो न पारमार्थिकसुखस्य वाचक इति हेतोः। १७ सुखमहमस्खापमित्यस्मिन्वाक्ये । १८ औपचारिकः। १९ दुःखस्य । २० दुःखलक्षणाद्भावादपरं सुखलक्षणं भावान्तरम् । २१ स्वापावस्थायां शानसद्भावसाधनविस्तरेण ।
प्र०क० मा० २८