SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ सू० २११२] मोक्षस्वरूपविचारः पाये ज्ञानादिसन्तानसद्भावश्चाशेषज्ञसिद्धिप्रस्तावे प्रतिपादितः। कथं चातीन्द्रियज्ञानाद्यनभ्युपगमे महेश्वरे तत्सद्भावः स्यात् ? नित्यत्वं चेश्वरज्ञानस्येश्वरनिराकरणे प्रतिषिद्धम् । शरीराद्यपायेप्यस्य ज्ञानाद्यभ्युपगलेऽन्यात्मनोपि सोस्तु तत्वभावत्वात् । न च स्वभावापाये तद्वतोऽवस्थानमतिप्रसङ्गात् । यत्तूतम्-आरब्धकार्ययोश्चोपभोगात्मक्षयः; तदपि न सूक्तम् । उपभोगात्कर्सणः प्रक्षये तदुपभोगसमये अपरकर्मनिमित्तस्याभिलापर्दशमनोवाकायव्यापारादेः सम्भवात् अविकलकारणस्य प्रचुरतरकर्मणो भवतः कथमात्यन्तिकः प्रक्षयः? सम्यग्ज्ञानस्य तु मिथ्याज्ञानोच्छेदक्रमेण वाह्याभ्यन्तरक्रियानिवृत्तिलक्षणचा-१० रित्रोपहितस्यागामिकर्मानुत्पत्तिसामर्थ्यवत् सञ्चितकर्मक्षयेपि सामर्थ्य सम्भाव्यत एव । यथोष्णस्पर्शस्य भाविशीतस्पर्शानुत्पत्तौ सामर्थ्यवत् प्रवृत्ततस्पर्शादिध्वंसेपि सामर्थ्य प्रतीयते। किन्तु परिणामिजीवाजीवादिवस्तुविषयमेव सम्यग्ज्ञानम् , न पुनरेकान्त नित्यानित्यात्मादिविषयम्: तस्य विपरीतार्थग्राहक-१५ त्वेन मिथ्यात्वोपपत्तरित्यग्रे निवेदयिष्यते । अतो यदुक्तम्-'यथैधांसि' इत्यादिः तत्सर्व संवररूपचारित्रोपवृंहितसम्यग्ज्ञानानेरशेषकर्मक्षये सामर्थ्याभ्युपगमात्सिद्धसाधनम् । यच्चाभ्यधायि-समाधिवलादुत्पन्नतत्त्वज्ञानस्येत्यादि; तदप्यभिधानमात्रम् ; अभिलाषरूपरागाद्यभावेऽङ्गनाधुपभोगासम्भवात् ।२० तत्सम्भवे वावश्यंभावी गृद्धिमतो भवद्भिप्रायेण योगिनोपि प्रचुरतरधर्माधर्मसम्भवो तृपत्यादेरिवातिभोगिनः । वैद्योपदेशादातुरोप्यौपधाद्याचरणे नीरुग्भावाभिलापेणैव प्रवर्तते, न पुनर्ज्ञानमात्रात् । तन्नाशेपशरीरद्वारावाप्ताशेपभोगस्य कर्मान्तरानुत्पत्तिः। किं तर्हि ? परिपूर्णसम्यग्दर्शनज्ञानचारित्रस्य, इत्यलं विवादेन, २५ जीवन्मुक्तैरपि त्रितयात्मकादेव हेतोः सिद्धः । संसारकारणं हि १ किञ्च । २ तद्-ज्ञानम् । ३ पृथुवुघ्नोदराधाकाराभावे घटावस्थानप्रसङ्गात् । ४ तस्य कर्मफलस्य । ५ उत्पधमानस्य । ६ सभ्यग्शानान्मिथ्याशानाभावः, मिथ्याशानाभावादागाघभावः, रागाधभावाद्वाह्या (वचनादि) भ्यन्तर (चिन्तन) क्रियानिवृत्तिरिति । ७ सहितस्य । ८ अङ्गकम्पउद्धर्षणादेः। ९ अस्मदीयमपि तत्त्वज्ञानं सञ्चितकर्मक्षयनिबन्धनमागामिकर्मानुत्पत्तिकारण स्यादित्युक्त आह । नित्यादिवस्तुविषयशानस्य सम्यग्ज्ञानता न प्रतीयते किन्तु इत्यादि। १० नित्यात्मादिविषयज्ञानस्य । ११ अनेकान्तसिद्धौ। १२ आकाङ्क्षावतः । १३ न केवलं योगी। १४ सम्यग्दर्शनादित्रयमोक्षकारणविषयविवादेन । १५ न केवलं परममुक्तः । १६ कारणात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy