________________
३११
सू० २११२] मोक्षस्वरूपविचारः अनित्यं वा? यदि नित्यम् ; मुक्तेतरावस्थयोरविशेपप्रसङ्गः तत्सु. खसंवेदनयोर्नित्यत्वेनोभंयत्र सत्त्वाविशेषात् । स्मरणानुपपत्तिश्च: अनुभवस्यैवावस्थानात् । संस्कारानुपंपत्तिश्च; अनुभवस्य निरतिशयत्वात् । करणजन्यसुखेन चास्य संसारावस्थायां साहचर्यग्रहणप्रसङ्गात् सुखर्द्वयोपलम्भः संदा स्यात् ।
अथ धर्माधर्मफलेन सुखादिना शरीरादिना वा नित्यसुखसंवेदनस्य प्रतिवद्धत्वेनानुभवाभावान्न मुक्तेतरावस्थयोरविशेषः सदा सुखद्वयोपलम्भो वा; तदयुक्तम् ; शरीरादेः सुखार्थत्वेन तत्प्रतिवन्धकत्वायोगात् । न हि यद्यदर्थ तत्तस्यैव प्रतिवन्धक युक्तम् । नापि वैषयिकसुखाद्यनुभवेन तत्प्रतिवन्धः । तेन हि १० नित्यसुखस्य तदनुभवस्य वा प्रतिवन्धोऽनुत्पत्तिलक्षणो विनाशलक्षणो वा न युक्तः, द्वयोरपि नित्यत्वाभ्युपगमात् । न च संसारावस्थायां वाह्यविषयव्यासङ्गाद्विद्यमानस्याप्यनुभवस्यासंवेदनम्, तद्भावात्तु मोक्षावस्थायां संवेदनमित्य भिधातव्यम्; तदनुभवस्य नित्यत्वेन व्यासङ्गानुपपत्तेः । आत्मनो हि व्यासङ्गो १५ रूपादौ विषये ज्ञानोत्पत्तौ विक्यान्तरे ज्ञानानुत्पत्तिः, इन्द्रियस्याप्येकसिन्विषये ज्ञानजनकत्वेन प्रवृत्तस्य विषयन्तरे ज्ञानाजन कत्वम् । स चात्रानुपपन्नः; सुखवत्तज्ज्ञानस्यापि सदा सत्त्वात् । शरीरादेस्तु प्रतिवन्धकत्वे तदपहन्तुहिंसाफलं न स्यात्, प्रतिवन्धकविघातकारकस्योपकारकत्वेन लोके प्रतीतेः। २० __ अथानित्यं तत्संवेदनम् ; तदोत्पत्तिकारणं वाच्यम् । अथ योगजधर्मापेक्षः पुरुषान्तःकरणसंयोगोऽसमायिकारणम् । ननु योगजधर्मस्य मुक्तावसम्भवात् कथमतौ तत्संयोगेनापेक्ष्येत
१संसारावस्थायां मुक्तावस्थायां च । २ अस्ति च संसारावस्थायां सुखस्मरणन् । ३ प्रत्यक्षस्य । ४ प्रत्यक्षविशेषो धारणाज्ञानं संस्कारः । ५ अस्ति च संस्कारस्योत्पत्तिः संसारावस्थायाम् । ६ भावरूपस्य । ७ नित्यसुखस्य । ८ नित्यानित्यसुखदयस्य । ९ यदा यदा वैषयिकं सुखमुत्पद्यते तदा तदा द्वयोरुपलम्म इत्यर्थः। १० कार्येण । ११ दुःखादिना च । १२ इन्द्रियादिना च। १३ प्रतिहतत्वेन। १४ अत्रार्थः प्रयोजनम् । १५ भोगायतनं शरीरमिति वचनात् । १६ प्रतिपक्षम् । १७ वनिता. दिवत् । १८ नित्यसुखसंवेदनयोः। १९ वेदान्तिना। २० नित्यमुखानुभवस्य । २१ वेदान्तिना। २२ आत्मन इन्द्रियस्य वा । २३ तत्समये । २४ ज्यासङ्गः। २५ रूपे । २६ रसे। २७ नित्यसुखे । २८ सुखतत्संवेदनयोः। २९ नरस्य । ३० वेदान्तिना। ३१ मनः। ३२ आत्मा तु समवायिकारणम् । ३३ नित्यसुखसंवेदनस्य । ३४ वैशेषिकः।