SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ सू० २।१२] प्रकृतिकर्तृत्ववादः २९७ विचित्रशक्तियुक्तमेकं नित्यं कारणम्, तदानकोन्तिकता हेतोः । तथाभूतेन क्वचिदन्वयासिद्धरसिद्धता च, न खलु व्यतिरिक्तशक्तिवशात् कस्यचित्कारणस्य क्वचित्काय प्रवृत्तिः प्रसिद्धा, शक्तीनां खात्मभूतत्वात्। यञ्चेदमुक्तम्-अविभागाद्वैवरूप्यत्या तदयसाम्प्रतम्, प्रल-५ यकालस्यैवाप्रसिद्धेः । सिद्धौ वा तदासी महादीनां लयो भवन् पूर्वस्वभावच्युतः भवेत्, अच्युतो का? यदि प्रच्युतौ; तहि तेषां तदा विनाशसिद्धिः खसावप्रच्युतेविनाशरूपत्वात् । अथानच्युतो; तर्हि लयानुपपत्तिः, नहि अविकलमात्मनस्तत्वमनुभवतः कस्यचिल्लयो युत्तोऽतिप्रसङ्गात् । परस्परविरुद्ध १० चेर्दम् 'अविभागो वैश्वरूप्यम्' इति च । वैश्वरूप्यं च प्रधानपूर्वत्वे नोपपद्यत एव, तन्मयत्वेन सर्वस्य जगतस्तत्स्वरूपवदेकत्वप्रसङ्गात्, इति कस्याऽविभागः स्वादिति ? तन्न प्रधानस्य सकलजगत्कर्तृत्वं सिद्धम् , यतस्तत्सिद्धी प्रधानस्य सर्वज्ञता, कर्तृत्वस्य कारणशक्तिपरिज्ञानाविनाभावासिद्धरित्युक्तं प्रागीश्वर-१५ निराकरणे, तद्लमतिप्रसङ्गने । एतेन सेश्वरसाङ्ख्यैर्यदुक्तम्-'न प्रधानादेव केवलादमी कार्यभेदाः प्रवर्तन्ते तस्यानत्वात् । न ह्यचेतनोऽविष्ठायकमन्तरेण कार्यमारभमाणो दृष्टः । न चान्यात्माऽधिष्ठायको युक्तः, सृष्टिकाले तस्याशत्वात् । तथा हि-बुध्यध्यवसितमेवार्थ पुरुष-२० श्वेतयते । वुद्धिसंसर्गाच पूर्वमसावज्ञ एव, न जातु कश्चिदर्थ विजानाति । न चाज्ञातमर्थ कश्चित्कर्तुं शक्तः। अतो नासौ कर्ता। तस्मादीश्वर एव प्रधानापेक्षः कार्यभेदानां कर्ता, न केवलः। न खलु देवदत्तादिः केवलः पुत्रन , कुम्भकारो वा घट जनयति' इति तदपि प्रतिव्यूडम् । प्रत्येकं तयोः कर्तृत्वत्यालन्भवे सहि-२१ तयोरप्यसम्भवात् , अन्यथा प्रत्येकपक्षनिक्षिप्तदोपानुपङ्गः। अथोच्यते-यदि नाम प्रत्येकं तयोः कर्तृत्वासम्भवत्तथापि सहितयोः कथं तद्भावः? न हि केवलानां चक्षुरादीनां रूपादि १ धर्मस्वभावे भेदः। २ साध्यते इति शेषः। ३ सन्दिग्धरूपा। ४ स्वस्य । ५ स्वरूपम् । ६ वस्तुनः। ७ प्रधानात्मनोरपि लयप्रसङ्गात्। ८ अविभागाद्वैश्वरूप्यमिति । ९ एकत्वम् । १० अनेकत्वम् । ११ लोके आदौ विभागोस्ति यदि तदा पश्चाद्विभागानामविभागः स्यात् । १२ कर्तृत्वं कारणशक्तिशानाबिनाभावि न भवतीति समर्थनेन। १३ प्रकृतीश्वरनिराकरणपरेण ग्रन्थेन। १४ महदादयः। १५ ईश्वरं प्रेरकम् । १६ संसार्यात्मा। १७ कार्यम् । १८ सहितयोस्तयोः कर्तृत्वसम्भवश्चेत् । १९ आलोकादीनां च ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy