SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ २८६ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० मनश्च सङ्कल्पलक्षणम्-"भोजनार्थ हि तत्र गृहे यास्यामि कि कति भविप्याति गुडो का भविष्यति' इत्येवं सङ्कल्पवृत्तिर्मनः पश्य तन्मात्रेभ्यः पञ्च भूतानि-शव्दादाकाशं, स्पशवायू , रूपाजः रसादायः, गन्धात्पृथ्वीति । पुरुषश्चेति । पञ्चविंशतितत्त्वानि। ५ प्रकृत्यात्मकाश्चैते महदादयो भेदा; न त्वतोऽत्यन्तभेटिनो लक्षणभेदाभावात् । तथाहि "त्रिगुणमविवेकि विषयः लामान्यमचेतलं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुनान् ।” [सांख्यका० ११] १० लोक हि यदात्मकं कारणं तदात्मकमेव कार्यमुपलभ्यते यथा कृष्णैस्तन्तुभिरारब्धः पटः कृष्णः । एवं प्रधानमपि त्रिगुणात्मकम्, तथा बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतात्मकं व्यक्तमपि । तथाऽविवेकि-'इसे लत्त्वादय इदं च महदादि व्यक्तम्' इति पृथक्कत न शक्यते । किन्तु 'ये गुणास्तव्यक्तं ययक्तं ते गुणाः' इति । तथा १५व्यक्ताव्यक्तद्वयमपि विषयो भोग्यखभावत्वात् । सामान्यं च सर्व पुरुषाणां भोग्यत्वात्पण्यस्त्रीवत् । अचेतनात्मकं च सुखदुःखमो. हावेदकत्वात् प्रसवधर्मिवत् । तथाहि-प्रधान् बुद्धिं जनयति, वुद्धिरप्यहङ्कारम् , अहङ्कारोपि तन्मात्राणीन्द्रियाण्डि चैकादश, तन्मात्राणि च महाभूतानीति । २० प्रकृतिविकृतिभावेन परिणामविशेषाल्लक्षणभेदोप्यविरुद्धः ! यथोक्तम् "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं य॑क्तं विपरीतमव्यक्तम् ॥" [सांख्यका० १०] २५ व्यक्तमेव हि कारणवत्; तथाहि-प्रधानेन हेतुमती बुद्धिः, बुद्ध्या चाहङ्कारः, अहङ्कारेण पञ्च तन्मात्राण्येकादश चेन्द्रियाणि, भूतानि तन्मात्रैः। न त्वेवमव्यक्तम्-तस्य कुतश्चिदनुत्पत्तेः । तथा व्यक्तमनित्यम् उत्पत्तिधर्मकत्वात्, नाव्यक्तम् तस्यानु १ महादादिकार्य त्रिगुणादिरूपेण व्यक्तम् । २ व्यक्ताऽव्यक्ताभ्याम् । ३ प्रधानमेव त्रिगुणात्मकम् । महदादिकार्य कथं त्रिगुणात्मकं स्यादित्युक्ते सत्याह । ४ आदि पदेन रजस्तमसी। ५ पुरुषेण। ६ स्वरूपावस्थानम् । ७ लक्षणभेदाभावात्कथं कार्यकारणभावः स्यादित्युक्ते आह । ८ महदादि । ९ प्रधानम् । १० हेतुमान् । ११ महदादि कार्यम् । १२ कारणात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy