SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ प्रमेशकमलमार्तण्डे [ २. प्रत्यक्षपरि० खावरणक्षयोपशमलक्षणयोग्यतया हि प्रति नियतमर्थ व्यवस्थापयति ॥ १० ॥ तथा हि-यदर्थप्रकाशकं तत्स्वात्मन्यपेतप्रतिवन्धम् यथा प्रदीपादि, अर्थप्रकाशकं च ज्ञानमिति । प्रतिनियतवावरणक्षयो. ५पशमश्च ज्ञानस्य प्रतिनियतार्थोपलब्धेरेव प्रसिद्धः। न चान्यो. न्याश्रयः; अस्याः प्रतीतिसिद्धत्वात् । तल्लक्षणयोग्यता च शक्ति रेव । सैव ज्ञानस्य प्रतिनियतार्थव्यवस्थायामङ्गं नार्थोत्पत्त्यादिः, तस्य निषिद्धत्वादन्यत्रादर्शनाच्च । न खलु प्रदीपः प्रकाश्यार्थैर्जन्य· स्तेषां प्रकाशको दृष्टः। १० किञ्च, प्रदीपोपि प्रकाश्यार्थाऽजन्यो यावत्काण्डपटाद्यनावृत मेवार्थ प्रकाशयति तावत्तदावृतमपि किन्न प्रकाशयेदिति चोये भवतोप्यतो योग्यतातो न किञ्चिदुत्तरम् ।। कारणस्य च परिच्छेद्यत्वे करणादिना व्यभि चारः ॥ ११॥ १५ नहीन्द्रियमदृष्टादिकं वा विज्ञानकारणमप्यनेने परिच्छेद्यते । न ब्रूमः-कारणं परिच्छेद्यमेव किन्तु 'कारणमेव परिच्छेद्यम्' इत्यवधारयामः, तन्न; योगिविज्ञानस्य व्याप्तिज्ञानस्य चाशेषार्थग्राहिणो. ऽभावप्रसङ्गात् । न हि विनष्टानुत्पन्नाः समसमयभाविनो वार्थास्तस्य कारणमित्युक्तम् । केशोण्डुकादिज्ञानस्य चाजनकार्थग्राहि२० त्वाभावप्रसङ्गः । कथं च कारणत्वाविशेषेपीन्द्रियादेरग्रहणम् ? अयोग्यत्वाच्चेत् ; योग्यतैव तर्हि प्रतिकर्मव्यवस्थाकारिणी, अलमन्यैकल्पनया । स्वाकारार्पकत्वाभावाचेन्न; ज्ञाने स्वाकारार्पकत्वस्याप्यपास्तत्वात् । कथं च कारणत्वाविशेषेपि किञ्चित्स्वाकारार्पर्क किञ्चिन्नेति प्रतिनियमो योग्यतां विना सिध्येत् ? कथं च सकलं २५ विज्ञानं सकलार्थकार्य न स्यात् ? 'प्रतिनियतशक्तित्वाद्भावानाम् इत्युत्तरं ग्राह्यग्राहकावेपि समानम्।। १.शानं कर्तृ । २ ज्ञानस्यापेतप्रतिवन्धत्वं कारणमर्थप्रकाशे चेत्तर्हि सकलार्थप्रकाशकं किमिति न स्यादित्युक्ते आह । ३ आदिपदेन ताद्रूप्यादिः । ४ प्रकाशके प्रदीपादौ । ५ तदुत्पत्त्यादेः। ६ धी हेतुश्च । ७ साध्यम् । ८ घटादिवदिति दृष्टान्तः । ९ इन्द्रियादिना । १० ज्ञानेन । ११ वयं सुगताः। १२ यत्सत्तत्सर्व क्षणिकमिति । १३ उत्पत्त्यादि । १४ इन्द्रियादेः । १५ स्वस्य घटादिवस्तुनः। १६ स्तम्भलक्ष णादर्थादनुत्पद्यमानं शानं स्तम्भस्य ग्राहकं यथा तथा निश्शेषार्थग्राहकं कुतो नं स्यादित्युत्तरं प्रतिनियतशक्तित्वाद्भावानामित्यत्रापि समानम् । १७ सामस्त्येन ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy