SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ २२० प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० समन्धकारादौ ध्यामलितवृक्षादिवेदनमप्यध्यक्षप्रमाणस्वरूप मेव, संस्थानमात्रे वैशद्याविसंवादित्वसम्भवात् । विशेषांशाध्यवसायस्त्वनुमानरूपः, लिङ्गप्रतीत्या व्यवहितत्वानाध्यक्षरूपतां प्रतिपद्यते । अतिदूरदेशे हि पूर्व संस्थानमात्रं प्रतिपद्य 'अयमेवंवि५धसंस्थानविशिष्टोर्थो वृक्षो हस्ती पलालकूटादिषु एवंविधसंस्थानविशिष्टत्वान्यथानुपपत्तेः' इत्युत्तरकालं विशेषं विवेचयति । तरतमभावेन तत्प्रदेशसन्निधाने तु संस्थानविशेषविशिष्टमेवार्थ वैशद्यतरतमभावेनाध्यक्षत एव प्रतिपद्यते, विशदज्ञानावरणस्य तरतमभावेनैवापगमात्। १० ननु च परोक्षेपि स्मृतिप्रत्यभिज्ञादिस्वरूपसंवेदनेऽस्याध्यक्षलक्षणस्य सम्भवादतिव्याप्तिरेव; इत्यप्यपरीक्षिताभिधानम् । तस्य परोक्षत्वासम्भवात् , क्षायोपशमिकसंवेदनानां वरूपसंवेदनस्यानिन्द्रियप्रधानतयोत्पत्तेरनिन्द्रियाध्यक्षव्यपदेशसिद्धेः सुखादि खरूपसंवेदनवत् । बहिरर्थग्रहणापेक्षया हि विज्ञानानां प्रत्यक्षतर१५व्यपदेशः, तंत्र प्रमाणान्तरव्यवधानाव्यवधानसद्भावेन वैशघेतरसम्भवात् , न तु स्वरूपहणापेक्षया, तत्र तभीवात् । ततो निर्दोषत्वाद्वैशा प्रत्यक्षलक्षणं परीक्षादक्षैरभ्युपगन्तव्यं न 'इन्द्रियार्थसन्निकर्पोत्पन्नम्' [न्यायसू०१४] इत्यादिकं तस्याव्याप कत्वादतीन्द्रियप्रत्यक्षे सर्वज्ञविज्ञानेऽस्यासत्त्वात् । न च 'तन्नास्ति' २० इत्यभिधातव्यम् प्रमाणतोऽनन्तरमेवास्य प्रसाधयिष्यमाणत्वात्। तथा सुखादिसंवेदनेप्यस्यासत्त्वम् । न हीन्द्रियसुखादिसन्निकर्षातज्ज्ञानमुत्पद्यते; सुखादेरेव स्वग्रहणात्मकत्वेनोदयादित्युक्तम् । चाक्षुषसंवेदने चास्यौसत्त्वम् ; चक्षुषोथैन सन्निकर्षाभावात् । अथोच्यते-स्पर्शनेन्द्रियादिवञ्चक्षुषोपि प्राप्यकारित्वंप्रमाणा२५त्प्रसाध्यते । तथा हि-प्राप्तार्थप्रकाशकं चक्षुः बाँटेन्द्रियत्वात्स्पर्श १ अस्पष्ट । २ आकारमात्रे। ३ द्वन्दः । ४ उक्तमेव समर्थयन्ति । ५ कर्मणः। ६ अव्यवधानेन प्रतिभासनत्वलक्षणस्य । ७ स्मृत्यादीनाम् । ८ अनिन्द्रियं । (ईषदिन्द्रियं ) मनः। ९ मानसप्रत्यक्षत्वादित्यर्थः। १० एवं चेत्स्मृत्यादीनां परोक्षव्यपदेशो न स्यादित्युक्ते आह। ११ बहिरर्थग्रहणे। १२ अनुमानलक्षणप्रमाणालिङ्गप्रत्यक्षं प्रमाणान्तरम् । १३ स्वसंवेदन। १४ प्रमाणान्तरव्यवधानाभावात् । २५ अव्याहयादिदोषत्रयासम्भवो यतः। १६ परोक्तं प्रत्यक्षलक्षणम् । १७ परेप भवता। १८ इन्द्रियार्थसन्निकर्षोत्पन्नमित्यादिकस्य । १९ मनः। २० जनैः प्रथमपरिच्छेदे। २१ प्रत्यक्षलक्षणस्य। २२ प्राप्यकारि प्राप्य अर्थ जानातीत्यर्थः। २३ नैयायिकेन। २४ इन्द्रियवादित्युक्ते मनसा व्यभिचारस्वत्परिहारार्थ बाह्य. ग्रहणम् । २५ बहिरथंग्रहणाभिमुखत्वात् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy