________________
सू० २।२] अभावस्य प्रत्यक्षादावन्तर्भावः २१५ विपत्तिः स प्रध्वंसः, मृद्रव्यानन्तरोत्तरपरिणामः । तस्य हि तुच्छस्वभावत्वे मुद्रादिव्यापारवैयर्थं स्यात् । स हि तद्व्यापारेणे घटादेर्भिन्नः, अभिन्नो वा विधीयते ? प्रथमपक्षे घटादेस्तद्वस्थत्वप्रसङ्गात् 'विनष्टः' इति प्रत्ययो न स्यात् । विनाशसम्बन्धाद् "विनष्टः' इति प्रत्ययोत्पत्तौ विनाशतद्वतोः कश्चित्स-५ स्वन्धो वक्तव्यः स हि तादात्म्यलक्षणः, तदुत्पत्तिखरूपो वा स्यात्, तद्विशेषणविशेप्यभावलक्षणो वा? तत्र न तावत्तादात्म्यलक्षणोसौ घटते; तयोर्मेदाभ्युपगमात् । नापि तदुत्पत्तिलक्षणः; घटादेस्तदकारणत्वात्, तस्य मुद्गरादिनिमित्तकत्वात् । तदुभयनिमित्तत्वाददोषः, इत्यप्यसुन्दरम् ; मुद्रादिवद्विनाशो-१० त्तरकालमपि घटादेरुपलम्भप्रसङ्गात् । तस्य स्खविनाशं प्रत्युपादानकारणत्वान्न तत्काले उपलम्भः; इत्यप्यसमीचीनम् : अभावस्य भावान्तरखभावताप्रसङ्गात् तं प्रत्येवास्योपादानकारणत्वप्रसिद्धः । तयोर्विशेषणविशेष्यभावः सम्बन्धः, इत्यप्यसत्, परस्परमसम्वद्धयोस्तदसम्भवात् । सम्वन्धान्तरेण १५ सम्वद्धयोरेव हि विशेषणविशेष्यभावो दृष्टो दण्डपुरुषादिवत् । न च विनाशततो सम्बन्धान्तरेण सम्वद्धत्वमस्तीत्युक्तन् । तन्न तद्व्यापारेण भिन्नो विनाशो विधीयते । अभिन्न विनाश विधाने तु 'घटादिरेव तेन विधीयते' इत्यायातम्। तच्चायुक्तम् । तस्य प्रांगेवोत्पन्नत्वात् ।
ननु प्रध्वंसस्योत्तरपरिणामरूपत्वे कपालोत्तरक्षणेषु घटप्रध्वंसस्याभावात्तस्य पुनरुज्जीवनप्रसङ्गः, तदप्यनुपपन्नम् ; कारणस्य कार्योपमर्दनात्मकत्वाभावात् । कार्यमेव हि कारणोपमर्दनात्मकत्वधर्माधारतया प्रसिद्धम् ।
यच्च कपालेभ्योऽभावस्यार्थान्तरत्वं विभिन्न कारणप्रभवतयो-२५ च्यते; तथाहि-'उपादानघटविनाशो वलवत्पुरुपप्रेरितमुद्राद्यभिघातादवयवक्रियोत्पत्तेरवयव विभागतः संयोगविनाशादेवोत्प
१ मृद्रव्यं कुशूलरूपं तस्यानन्तर परिणामो घटः । तस्योत्तरपरिणामस्तु कपाललक्षणः । २ कर्म । ३ प्रध्वंसाभाव विशिष्टो घट इति । ४ परेण । ५ घटादुत्पत्तिः अध्वंसस्यति । ६ तं विनाशं प्रति । ७ यथा घटस्य कपालादि भावान्तरम् । ८ कपाललक्षणं भावान्तरस्वभावम् । ९ तादात्म्यतदुत्पत्तिलक्षणेन। १० मुद्गरादिव्यापारेण की। ११ घटात् । १२ द्वितीयपक्षे। १३ मुद्गरादिव्यापारात् । १४ कपाल । १५ घटस्य । १६ कपाल । १७ हेतोविभिन्न कारणत्वं समर्धयति परः। १८ चलन
लक्षणायाः।