________________
सू० २।२] अभावविचारः
अप्सु गन्धो रसश्चाग्नौ वायौ रूपेण तौ सह । व्योम्नि संस्पर्शता ते च न चेदस्य प्रमाणता ॥"
मी० श्लो० अभाव० श्लो० ५-६] इति । न च निरंशत्वाद्वस्तुनस्तत्वरूपग्राहिणाध्यक्षणास्य सर्वात्मना ग्रहणादगृहीतस्य चापरस्यादंशस्य तत्राभावात् कथं तद्व्यवस्थाप-५ नाय प्रवर्तमानामभावाख्यं प्रमाणं प्रामाण्यमथुते? इत्यभिधातव्यम् । यतः सद्सदात्मके वस्तुन्नि प्रत्यक्षादिना त सदशग्रहणेप्यगृहीतस्यासदंशस्य व्यवस्थापनाय प्रमाणाभावस्य प्रवत्तमानस्य न प्रामाण्यव्याहतिः। उक्तं च"स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
१० वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित्कदाचन ॥१॥ यस्य यंत्र यंदो तिर्जिघृक्षा चोपजायते । वेद्यतेनुभवस्तस्य तेन च व्यपदिश्यते ॥२॥ तस्योपकारकत्वेन वर्त्ततेऽशस्तैदेतरः। उभयोरपि संवित्या उभयानुगमोस्ति तु ॥३॥"
मी० श्लो० अभाव० श्लो० १२-१४] |त्यक्षाद्यवतारश्च भावांशो गृह्यते यदा। व्यापारस्तदनुत्पत्तरभावांशे जिक्षिते ॥ ४॥"
. [मी० श्लो० अभाव० श्लो० १७ ] न च धर्मिणोऽभिन्नत्वाद्भावांशवभावांशस्याप्यध्यक्षेणैव ग्रहः । सदसदंशयोधर्म(W)भेदेप्यन्योन्यं भेदानायनरश्मिरूपादिवदभावस्यानुद्भूतत्वात् । न चामावस्य आवरूपेण प्रमाणेन परिच्छित्ति
१ गन्धादयः । २ सद्रूपस्य वस्तुनः । ३ समर्थनाय । ४ व्याप्नोति । ५ सौगतेन । ६ सर्वदा। ७ प्रमाणैः। ८ किचिद्रूपमित्येतत्पदं यस्येत्यादिना विवृणोति । सदंशस्यासदंशस्य वा । ९ उभयात्मके वस्तुनि । १० सदंशग्रहणकाले । ११ अभिव्यक्तिः । १२ पुरुषाणाम् । १३ नरैः। १४ परिच्छित्तिः। १५ सदंशस्थासदंशस्य वा। १६ अभिव्यक्तेन सदंशेन असदंशेन वा । १७ पुंभिर्वस्तु । १८ य एवांशो गृह्यते स एवांशोस्ति न तद्वितीय इत्युक्ते आह। १९ गृह्यमाणसदंशस्य । २० सदंशग्रहणकाले । २१ असदंशः । २२ सदसदंशयोः । २३ संवेदनात् । २४ उभयात्मके वस्तुनि। २५ कैश्चिदित्येतत्पदं प्रत्यक्षाद्यवतार इत्यादिना आह । २६ तदा भवेत् । २७ स्यात् । २८ अभावस्य । २९ ग्रहीतुमिष्टे वस्तुनि । ३० तदनुत्पत्तरित्यतदपरार्द्धार्थ विघटयति । ३१ वस्तुनः। ३२ एकत्वात् । ३३ मेदेप्युभयधर्मयोः प्रत्यक्षेण महणं कुतो न स्यादित्युक्त आह । अन्योन्यमिति । ३४ सदंशस्योद्भूतत्वात् ॥