SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ सू० १११३] प्रामाण्यवादः यापि-तत्तुल्यरूपेऽन्यत्र तयोर्दर्शनात्तदोशङ्का; सापि त्रिचतुरज्ञानापेक्षामात्रान्निवर्त्तते । न च तदपेक्षायां स्वतःप्रामाण्यव्याघातोऽनवस्था वा; संवादकज्ञानस्याप्रामाण्यव्यवच्छेदे एव व्यापारादन्यज्ञानानपेक्षणाच्च । तदुक्तम् "एवं त्रिचतुरज्ञानजन्मनो नाधिका मंतिः।। प्रार्थ्यते तावतैवेयं स्वतःप्रामाण्यमश्नुते ॥ १॥" मी० श्लो० सू० २ श्लो० ६१7 योऽप्यनुत्पद्यमानः संशयोबलादुत्पाद्यते सोप्यर्थक्रियार्थिना सर्वत्र प्रवृत्त्यादिव्यवहारोच्छेदकारित्वान्न युक्तः । उक्तञ्च "आशङ्केत हि यो मोहादजातमपि वाधकम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥ १॥"[ ] १ अप्रमाणे। २ अप्रामाण्य । ३ प्रमाणे । ४ परिज्ञाने। ५ पञ्चमस्य ज्ञानस्य । ६ स्वग्रन्थोक्तप्रकारेण कथमाद्यशानस्य द्वितीयादिसंवादशानापेक्षित्वप्रकारेण । ७ उत्पत्तेः। ८ का। ९ ज्ञानम् । १० वाञ्छते पुरुषेण । ११ प्राप्नोति । १२ यथाऽऽशाद्यज्ञानं द्वितीयं द्वितीयं च तृतीयं तृतीयं च चतुर्थमपेक्षते । तथा चतुर्थेनापि पञ्चममपेक्षणीयमित्यादिप्रकारेणानवस्था किमिति न स्यादित्युक्ते सत्याह । १३ विषये। १४ अज्ञानात् । १५ प्रवृत्तिनिवृत्तिरूपेषु। १६ यतः। 1 "ननु यथा आद्यस्य द्वितीयेन दोषोऽवगतः तस्यापि तृतीयेन तथा तृतीयस्यापि दोषाशङ्का भवत्येव, तथा सर्वत्रैवेति न कचिदाश्वासः स्यादत आह-दोषाने त्वनु. त्पन्ने न शङ्कया निष्प्रमाणता' इति । दिक्कालावस्थेन्द्रियविषयदोषा हि मिथ्यात्वहेतवो लोकप्रसिद्धा यत्र नैव संभवन्ति यथा जागर्यायामालोके स्वस्थेन्द्रियमनस्कस्य सन्निहितवटज्ञाने । तत्र नैव दोषाशङ्का, तदभावाचाप्रामाण्याशङ्कापि नैव भवति । यथाविषेषु हि अप्रामाण्यसंभवः तथाविधेष्वेव तदाशङ्का भवति, संभावितदोषेषु च तत्संभव इति कथमन्यत्र शक्यते ? नहि ज्ञानत्वमात्रेण संशयो युक्तः; संशयस्य साधारणधर्मादि. निश्चयाधीनत्वात् । तदवश्यं कानिचिज्ज्ञानानि असन्दिग्धप्रामाण्यान्येवोत्पद्यन्ते । तस्मान्न सर्वत्राशङ्का । यत्रापि दूरत्वादिदोषसंभवादप्रामाण्याशङ्का, तत्रापि प्रत्यासत्तिगमनादिनाऽन्यतरपदार्थनिर्णयान्नातिदूरगमनमिति । एवं च तृतीयज्ञाने दोषो यदि न संभावितः ततस्तदवधिरेव निर्णयः। अथ तु संभावितः ततस्तन्निराकरणप्रयत्नेन चतुर्थशानावसानो निर्णय इति नाधिकज्ञानापेक्षा । तावतैव तृतीयेन चतुर्थेन वा द्वितीयस तृतीयस्य वाधे सति यस्यैवाद्यस्य द्वितीयस्य वा प्रामाण्यं समर्थ्यते तस्य स्वाभाविकं . प्रामाण्यमनपोदितं भवति । इतरच्चापवादादप्रमाणमिति नानवस्था।" मी० श्लो० न्यायरत्ना० पृ० ६४ । 2 "उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥ २८७२ ॥ तत्त्वसं० (पूर्वपक्षे) प्र. क. मा० १४
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy