________________
सू० १११०] ज्ञानान्तरवेद्यज्ञानवादः स्वरूपे विरोधानिस्वरूपत्वानुषङ्गः । विरोधस्य द्विष्ठत्वाच्च न क्रियायाः स्वात्मनि विरोधः। क्रियावदात्मा तस्याः खात्मा इत्यप्यसङ्गतम् , क्रियावत्येव तस्याः प्रतीतेस्तत्र तद्विरोधासिद्धेः' अन्यथा सर्वक्रियाणां निराश्रयत्वं सकलद्रव्याणां चाऽक्रियत्वं स्यात् । न चैवम् ; कर्मस्थायास्तस्याः कर्मणि कर्तृस्थायाश्च कर्तरि ५ प्रतीयमानत्वात् । किञ्च, तंत्रोत्पत्तिलक्षणा क्रिया विरुध्यते, परिस्पन्दात्मिका, धात्वर्थरूपा, ज्ञप्तिरूपा वा? यवुत्पत्तिलक्षणा, सा विरुध्यताम् ! नखलु 'ज्ञानमात्मानमुत्पादयति' इत्यभ्यनुजानीमः खसामग्रीविशेषवशात्तदुत्पत्त्यभ्युपगमात् । नापि परिस्पन्दात्मिकासौ तत्र विरुध्यते, तस्याः द्रव्यवृत्तित्वेन ज्ञाने सत्त्वस्यैवास- १० म्भवात् । अथ धात्वर्थरूपा; सा न विरुद्धौ ‘भवति तिष्ठति' इत्यादिक्रियाणां क्रियावत्येव सर्वदोपलब्धेः। जैप्तिरूपक्रियायास्तु विरोधो दूरोत्सारित एव; स्वरूपेण कस्यचिद्विरोधासिद्धेः, अन्यथा प्रदीपस्यापि वप्रकाशनविरोधस्तद्धि खकारणकलापात्स्वपरप्रकाशात्मकमेवोपजायते प्रदीपवत्।
ज्ञानक्रियायाः कर्मतया स्वात्मनि विरोधस्ततोऽन्यत्रैव कर्मत्वदर्शनादित्यप्यसमीक्षिताभिधानम् । प्रदीपस्यापि स्वप्रकाशनविरोधानुषङ्गात् । यदि चैकत्रं दृष्टो धर्मः सर्वत्राभ्युपगम्यते, तर्हि घटे प्रभाखरोष्ण्यादिधर्मानुपलब्धेः प्रदीपेप्यस्याभावप्रसङ्गः, रथ्यापुरुषे वाऽसर्वज्ञत्वदर्शनान्महेश्वरेप्यसर्वज्ञत्वानुषङ्गः। अत्र २० वस्तुवैचित्र्यसम्भवे ज्ञानेन किमपराद्धं येत्रिीसौ नेष्यते ? किञ्च ज्ञानान्तरापेक्षया तंत्र कर्मत्वविरोधः, स्वरूपापेक्षया वा?
१ अभाव । २ अर्थ । ३ स्वरूप १ ४ ओदनं पचति देवदत्तः। ५ न विरोधः। ६ ग्रामं गच्छति देवदत्तः। ७ ज्ञाने। ८ भवता परेण । ९ परेण । १० वयं जनाः। ११ खात्मनि । १२ देवदत्तादौ। १३ जानाति । १४ खात्मनि । १५ अर्थस्य । १६ असदादिज्ञान । १७ कुतः। १८ घटादौ। १९ किञ्च । २० स्वच्छिदिक्रियां प्रति कर्मत्वविरोधलक्षणः। २१ खनादौ। २२ शाने। २३ भाखरोष्ण्यसर्वशत्वलक्षण । २४ केन । २५ स्वपरप्रकाशरूपो वैचित्र्यसम्भवः। २६ परेण । २७ ज्ञानक्रियायां।
1 "का पुनः स्वात्मनि क्रिया विरुद्धा परिस्पन्दरूपा धात्वर्थरूपा वा? तत्त्वार्थशो० पृ० ४२ । स्या० रत्ना० पृ० २२८ । “का पुनः स्वात्मनि क्रिया विरुध्यते ज्ञप्तिरुत्पत्तिा ?" आप्तप० पृ० ४७ । स्याद्वादमं० पृ० ९३ । “उत्पत्तिरूपा, परिस्पन्दा. त्मिका, धात्वर्थस्वभावा, ज्ञप्तिलक्षणा वा ?" न्यायकुमु० पृ० १८७ ।
2 "किंच, ज्ञानान्तरापेक्षया तत्र कर्मत्वविरोधः स्वरूपापेक्षया वा?" न्यायकुमु० पृ० १८८॥