SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ११४ प्रमेयकमलमार्तण्डे प्रथमपरि० शरीरं चैतन्य गुणाश्रयो भूतविकारत्वाद् घटादिवत् । चैतन्यं वा शरीरविशेषगुप्यो भवति सति शरीरे निवर्तमानत्वात् । ये तु शरीरविशेषगुणा न ते तस्मिन्सति निवर्तन्ते यथा रूपादयः, सत्यपि तैसिन्निवर्त्तते च चैतन्यम् , तस्मान्न तद्विशेषगुणः । ५ तथा, नेन्द्रियाणि चैतन्यगुणवन्ति करणत्वाद्भूतविकारत्वाद्वा वास्यादिवत् । तहुणत्वे च चैतन्यस्येन्द्रियविनाशे प्रतीतिर्न स्याहुणिविनाशे गुणस्याप्रतीतेः। न चैवम् , तस्मान्न तहुणः । तथा च प्रयोगः-स्मरणादि चैतन्यमिन्द्रियगुणो न भवति तद्विनाशेप्युत्प द्यमानत्वात् , यो यद्विनाशेप्युत्पद्यते स न तहणो यथा पटविना१० शेपि घटरूपादि, भवति चेन्द्रियविनाशेषि स्मरणादिकम् , तस्मान्न तहुणः। यदि चेन्द्रियगुणश्चैतन्यं स्यात्तर्हि करणं विना क्रियायाः प्रतीत्यभावात् करणान्तर्भवितव्यम् । तेषां च प्रत्येक १ शरीरस्य । २ चैतन्यस्य। ३ शरीरे । ४ किञ्च । ५ सुखम् । ६ किञ्च । ७ गुणी। ८ गुणः। ९ जानातीति । १० चैतन्यलक्षणायाः । ___1"न शरीरेन्द्रियमनसामशत्वात् । न शरीरस्य चैतन्यं घटादिवत् भूतकार्यत्वात् मृते चासंभवात् ।" प्रश० भा० पृ० ६९ । ___ "शरीरं चैतन्यशून्यं भूतत्वात् कार्यत्वाच्च ।...चैतन्यं शरीरविशेषगुणो न भवति सति शरीरे निवर्तमानत्वात् ।” प्रश० व्यो० पृ० ३९४ । न्यायकुमु० पृ० ३४६ । "न शरीरगुणश्चेतना, कस्मात् ? 'यावच्छरीरभावित्वात् रूपादीनाम् ।' 'शरीर. व्यापत्वात्' 'शरीरगुणवैधात्' । न्यायसू० ३।२।४९,५२,५५। "न शरीरस्य ज्ञानादियोगः परिणामित्वात् , रूपादिमत्त्वात् , अनेकसमूहस्वभावत्वात् , सन्निवेशविशिष्टत्वात् ।" न्यायमं० पृ० ४३९ । "देहधर्मवैलक्षण्यात्..." ब्रह्मसू० शा० भा० ३॥३॥५४॥ 2 "नेन्द्रियाणां करणत्वात् उपहवेषु विषयासान्निध्ये चाऽनुस्मृतिदर्शनात् ।" :: प्रश० भा० पृ० ६९।। "नेन्द्रियार्थयोः तद्विनाशेऽपि शानावस्थानात् ।" . . न्यायसू० ३।२।१८ । "नेन्द्रियाणां चैतन्यं करणत्वात् वास्यादिवत्, भूतत्वात् , कार्यत्वादित्यपि द्रष्टव्यम् । तदुपधातेऽपि स्मृतिदर्शनात् ।" प्रश० व्यो० पृ० ३९४ । न्यायकुमु० पृ० ३४६ । ..3 "स्मरणामिन्द्रियगुणो न भवति यथा घटविनाशेऽपि पटरूपादिरिति । तथा च स्मरणमिन्द्रियविनाशेऽपि भवति तस्मान्न तद्गुण इति ।” प्रश० व्यो० पृ० ३९५ । , 4 "यदि चेन्द्रियाणां चैतन्यं स्यात् करणं विना क्रियायाश्चानुपलब्धेरिति करणान्तरैर्भवितव्यम् । तानि करणानि इन्द्रियाणि विवादास्पदानि चाहमान इत्ये. कस्मिन् शरीरे पुरुषबहुत्वमभ्युपगतं स्यात् ।": ,... प्रश० व्यो० पृ० ३९५ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy