SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ १०६ प्रमेयकमलमार्तण्डे [प्रथमपरि० किंञ्चिदेव प्रतिपद्यते न सर्वमिति विभागः किं नेष्यते? अन्योन्याश्रयदोपैश्चोभयत्र समानः। किञ्च, प्रतिनियतघटादिवत्सकलं वस्तु निखिलज्ञानस्य कारणं खाकारार्पकं वा किन्न स्यात् ? वस्तुसामर्थ्यात् किञ्चिदेव कस्यचित् कारणं न सर्व सर्वस्येति चेतः ५ तर्हि तत एव किञ्चित्कस्यचिद्राह्य ग्राहकं वा न सर्व सर्वस्येत्यलं प्रतीत्यपलापेन। प्रमाणत्वाचास्य तदभावः। अर्थाकारानुकारित्वे हि तस्य प्रमेयरूपतापत्तः प्रमाणरूपताव्याघातः, न चैवम् , प्रमाणप्रमेययोर्वहि. रन्तर्मुखाकारतया भेदेन प्रतिभासनात् । न चाध्यक्षेण ज्ञान१० मेवाऽर्थाकारमनुभूयते न पुनर्वाह्योऽर्थ इत्यभिधातव्यम् ; ज्ञानरू पतया वोधस्यैवाध्यक्षे प्रतिभासनानार्थस्य । न हानहङ्कारास्पदत्वेनार्थस्य प्रतिभासेऽहङ्कारास्पदवोधरूपवत् ज्ञानरूपता युक्ता, अहङ्कारास्पदत्वेनार्थ स्यापि प्रतिभासोपंगमे तु 'अहं घटः' इति प्रतीतिप्रसङ्गः । न चान्यथाभूता प्रतीतिरन्यथाभूतमर्थ व्यवस्था१५ पयति; नीलप्रतीतेः पीतादिव्यवस्थाप्रसङ्गात् । बोधस्यार्थीकारतां मुक्त्वार्थेन घटयितुमशक्तेः 'नीलस्यायं वोधः' इति, निराकारवोधस्य केनचित्प्रत्यासत्तिविप्रकर्षासिद्धः सर्वार्थघटनप्रसङ्गात्सर्वेकवेदनापत्तेः प्रतिकर्मव्यवस्था ततो न स्यादित्यर्थाकारो वोधोऽभ्युपंगेन्तव्यः । तदुक्तम् १ बस्तु ! २ परेण ३ नियतार्थप्रतिपत्तौ नियतस्वभावसिद्धिस्तत्सिद्धौ च नियतार्थप्रतिपत्तिसिद्धिरिति, नियतनीलाकारानुकरणे च सिद्धे नियतानुकरणयोग्यतासिद्धिीनस्य तत्सिद्धौ च नियतनीलाकारानुकरणसिद्धिरिति । ४ नियतार्थग्रहणानुकरणयोः । ५ कस्यचित्पदार्थस्य । ६ किञ्च । ७ अर्थाकारानुकारित्वाभावः। ८ अस्तूभयं का नो हानिरिति चेत्। ९ इन्द्रिय। १० परेण । ११ अर्थस्य बोधरूपतया। १२ परेण। १३ अन्यथा । १४ पदार्थेन। १५ ताद्रूप्यतदुत्पत्तिलक्षणसम्बन्ध । १६ तदभाव। १७ ईप् ( सप्तमी)। १८ निराकारबोधस्य सम्बन्धात् । १९ सम्बन्ध । २० सर्वानाम् । २१ पटशानस्य पटो विषयो घटशानस्य घट इत्यादि। २२ जैनेन भवता। 1 "प्रमाणरूपताविरोधानुषङ्गश्च ।" न्यायकुमु० पृ० १६८। 2 "तदाकारं हि संवेदनमर्थ व्यवस्थापयति नीलमिति पीतञ्चेति ।" . प्रमाणवा० अलं पृ० २। "किमर्थ तर्हि सारूप्यमिष्यते प्रमाणम् ? क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् । "सारूप्यतोऽन्यथा न भवति नीलस्य कर्मणः संवित्तिः पीतस्य वेति क्रियाकर्मप्रतिनियमार्थमिष्यते।" प्रमाणवा० अलं पृ० ११९ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy