________________
१२ प्रमेयकमलमार्तण्डे प्रथमपरि० खयमकारकत्वे पररूपेणाप्यकारकत्वात् तद्वातोंच्छेदतो न कुतश्चित् किञ्चिदुत्पद्येत । ततः स्वरूपेणैव भावाः कार्यस्य कार इति न कदाचित्तत्कियोपॅरतिः स्यात्।। __ ननु कार्याणां सामग्रीप्रभवस्वभावत्वात् तस्याश्चापरापरप्रत्यय५योगरूपत्वात्प्रत्येकं नित्यानां तकियाखभावत्वेऽप्यनुत्पत्तिस्तेषामिति, तदप्यसाम्प्रतम् ; यतोऽयमेकोऽपि भावः क्रमभाविकार्योंत्पादने समर्थोऽतःकथमेषां भिन्नकालापरापरप्रत्यययोगलक्षणाऽनेकसामग्रीप्रभवस्वभावता स्यात् ? एकेनापि हि तेन तजनन
सामर्थ्य विभ्राणेन तान्युत्पादयितव्यानि, कथमन्यथा केवलस्य १०तजननवभौवता सिद्धयेत् ? तस्याःकार्यप्रादुर्भावानुमीयमानव
रूपत्वात् प्रयोगः-यो यन्न जनयति नासौ तजननस्वभावः यथा गोधूमो यवाङ्कुरमजनयन्न तेजननस्वभावः, न जनयति चायं केवलः कदाचिदेप्युत्तरोत्तरकालभावी नि प्रत्ययान्तरापेक्षाणि कार्याणीति । नेनु प्रत्ययान्तरमपेक्ष्य कार्यजननस्वभावत्वान्नासौ १५ केवलस्तजनयति, न च सहकारिसहितासहितावस्थयोरस्य स्वभा
वभेदः प्रत्ययान्तरापेक्षखकार्यजननस्वभावतायाःसर्वदा भावात्, तदप्यपेशलम् ; यतः प्रेत्ययान्तरसन्निधानेऽपि स्वरूपेणैास्य कार्यकारिता, तच्च प्राँगप्यस्तीति प्रागेातः कार्योत्पत्तिः स्यात् ।
प्रत्ययान्तरेभ्यश्चास्यातिशयसम्भवे तदपेक्षा स्यादुपकारकेष्वे२० वास्याः सम्भवात् , अन्यथाऽतिसङ्गात् । तत्सन्निधानस्यासन्निधानतुल्यत्वाच केवल एवासौ कार्य कुर्यात् , अकुर्वश्च केवलः सहितावस्थायां च कुर्वन् कथमेकखभावो भवेद्विरुद्धधर्माध्यासतः स्वभावभेदानुषङ्गात् ?:
किञ्च सकलानि कारकाणि साकल्योत्पादने प्रवर्तन्ते, असक२५लामि वा ? न तावत्सकलानि साकल्यासिद्धौ तत्सकलत्वासिद्धः।
१ आत्मादिरूपेणापि । २ कारक । ३ कार्य। ४ स्वाधीनतया। ५ कार्य। ६ करण। .७ विश्रामः । ८ परः। ९ कारण। १० कदाचित् रूपभिन्नकालक्रमभाविकारणयोगरूपत्वात् । ११ केवलं । १२ करण। १३ नित्यः। १४ कारण । मा। १५ नित्यस्य । १६ केवलेन। १७ परिणामित्वं । १८ न तथा। *प्रत्येक मात्मादिर्धी (*केवल:) तदजनकत्वादिति हेतुः तज्जननस्वभावो न भवतीति साध्यम् । १९ हेतुः। २० धर्मः । २१ अयमेवोपनयः । २२ तस्मादात्मादिः प्रत्येकमुत्तरोत्तरं निगमनम्। २३ परः। २४ कारणान्तरं। २५ सहकारिलक्षणकारणान्तर। २६ नित्यस्य। २७ सहकारिसन्निधानात् । २८ आत्मादिकारकात् । २९ कारकस्य । ३० उपकार: काणामेवापेक्षा भवति नाऽन्येषामित्यर्थः। ३१ अनुपकारकेष्वेव सम्भवे । ३२ पटोत्पत्ती कुविन्दस्य मृत्पिण्डे अपेक्षा भवेत् । ३३ अनुपकारकप्रत्ययान्तर। ३४ प्रमाण । ३५ यतोऽद्यापि विचार्यमाणं (ततः)। ३६ दित्राणामपि प्रामोति ।